________________ मलद्वारराघवे च्छेदकत्वात् / नेतरः / आत्माश्रयप्रसङ्गात् / अस्तु वा किश्चिदवच्छेद. कम् / तथापि तदेव 'लक्षणमस्तु / किमनेन / लाघवात् / किञ्च विद्यानाथलक्षणे 'विषये पिहितात्मनि' इत्यत्र विषयस्य सर्वथा विधानं विवक्षितं किं विशेषांशस्यैव वा / नाद्यः / असंभवप्रसङ्गात् / नेतरः / संदेहालङ्कारेऽतिव्याप्तेः / तत्र विशेष्यांशस्य संदिह्यमानतया पिधानसभावात् / ननु विषये विशेष्यांशस्यास्फुरणमेव पिधानं विवक्षितमिति नोक्तदोष इति चेन्न / तथापि गुरुमतानुसार प्रति तदभेदसाधने तदन्यतरासिद्धिप्रसङ्गात् / तस्मात् प्रांतिमदलकारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते- 'अलाकारत्वे सति व्यधिकरणप्रकारकव्यबहारहेतुतावच्छेदकावच्छिन्नाधिष्ठानसदृशवस्त्वन्त. रनिश्चयो 'भ्रांतिमान्' इति लक्षणनिष्कर्षः / अत्र निश्चयपदेन सन्देह. व्यावृत्तिः / अधिष्ठानसदृशवस्त्वन्तरेत्यनेन गाढमर्मप्रहारादिजन्यभ्रान्तावतिप्रसङ्गव्यावृत्तिः / व्यधिकरणकप्रकारकव्यवहारहेस्वित्यनेन स्मरणालङ्कारव्यावृत्तिः। प्रथमविशेषणेन 'इदं रजतमित्यादिलौकिकान्तिव्यावृत्तिः फलति / अवच्छेदकावच्छिन्नेति सम्पातायातम् / न च अन्यतरासिद्धि. शहा / गुरुमते धर्मिज्ञान निरन्तरोत्पन्नस्मृति प्रमोषस्यैव तादृशरूपनिश्चयरूपत्वात् / 'तार्किकादिमतेऽपि व्यधिकरणप्रकारकज्ञानस्यैव तादृशनिश्चयरूपत्वात् / . लक्षणमनेन-आ ''सदृशे धर्मिणि तादात्म्येन धर्मान्तरप्रकारकः अनाहायः निश्चयः सादृश्यप्रयोज्यः चमत्कारी प्रकृते आन्तिः / सा च पशुपक्ष्यादिगता यस्मिन् वाक्यसन्दर्भ अनूद्यते स भ्रान्तिमान्' (रसगाधरः-२ आननम्) 'धर्मज्ञान-त 'चिरन्तनोत्पन-न . 'प्रमोदस्यैव-आ तार्किकमतेऽपि-त