________________ भ्रान्मिदालङ्कारप्रकरणम् 69 भ्रान्तिपदवाच्यत्वेन तत्तांशस्पर्शायोग्यत्वादेरभावात् / ननु तर्हि संवेदनशब्देन अनुभवरूपं ज्ञानं विवक्षितमिति न स्मरणालबारेऽतिव्याप्तिरिति चेत् . ताई सन्देहालकारेऽतिव्याप्तिः / तस्यापि 'तुल्यदर्शने सत्यन्यवस्तुसन्देहरूपानुभवरूपत्वात् सन्देहस्य धर्मिज्ञानजन्यत्वाङ्गीकारात् / ननु तादृशनिर्णयरूपानुभव एव संवेदनशब्दार्थ इति चेत् तर्हि इतरभेदसाधने प्रामाकरं प्रत्यन्यतरासिद्धिप्रसङ्गः। तन्मते 'भ्रान्तेरनुभवरूपत्वानगीकारात् / "अयथार्थज्ञानस्य व्यव. हारो वा धर्मिज्ञाननिरन्तरोत्पन्नस्मृतिप्रमोषो वा, प्रान्ति'रिति तैः स्वीकारात् / अतो न काव्यप्रकाशकारलक्षणं युक्तम् / इतरलक्षणेष्वपि ' सादृश्यजन्यवस्त्वन्तरप्रतीतिः भ्रान्तिमानिति' निष्कृष्टार्थः / तथा सति इदं रजतमिति प्रतीतावतिव्याप्तिः / ननु तत्र कविसम्मतसादृश्यजन्यत्वं विवक्षितमिति नोक्तदोष इति चेन्न / शुक्तिरजतसादृश्यस्य सर्वसम्मतत्वेन कविनापि सम्मतत्वात् तद्दोषतादचस्थ्यात् / न च कविमात्र सम्मतत्वं विवक्षितमिति वाच्यम् / 'धार्मिकभूते तस्मिन् सर्वे नन्दन्ति रामभद्रषिये 'त्यत्राति व्याप्तिः / तत्र रामसादृश्यस्य शुष्कतार्किकाणामपि सम्मतत्वेन 'कविमात्रसम्मतत्वाभावात् / अस्तु वा किश्चित् व्यावर्तकविशेषणाध्याहारः / तथापि सादृश्यजन्यतावच्छेदकं किश्चिद्वक्तव्यम् / 'तत्केवलम्रान्तित्वं वा / प्रान्ति मदलकारस्थलीयान्तित्वं वा। नाद्यः। तस्यातिरिक्तवृत्तित्वेन अनवः 'तुल्यदर्शनसत्ववस्तुसन्देह-आ " भ्रान्तिरूपत्वानङ्गीकारात्-आ 'अयतार्थज्ञानव्यवहारो वा धर्मिज्ञाननिरन्तरोत्पन्नस्मृतिप्रमोषो वा-न * सम्मतेति विवक्षितम्-न .. .. .. 'तिव्याप्तेः---न. * तन्मात्रसम्मतत्वाभावात्-न . 'तत् किं भ्रान्तित्वं बा-न. वस्त्वतिरिक्तवृत्तित्वेन-आ