SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ भलकारराघवे // अथ भ्रान्तिमदलङ्कारः॥ . आरोपप्रधानालझारप्रस्तावे एककर्तृकनिर्णयरूपारोपप्रधानत्वात् विधिमुखेन प्रतीयमानत्वाञ्च प्रान्तिमनिरूपणमुचितमिति अवान्तरसङ्गतिः / ननु - 'भ्रान्तिमानन्यसंवित् तत्तुल्यदर्शने' इति काव्यप्रकाशकारः / . 'सादृश्यावस्त्वन्तरप्रतीतिः भ्रान्तिमान्' इत्यलद्वारसर्वस्वकारः / ' 'वस्त्वन्तरप्रतीतिविलसति सादृश्यहेतुका यत्र / तं भ्रान्तिमन्तमेतं ब्रुवतेऽलङ्कारपारदृश्वानः // ' इति विद्याधरः / 'साम्यावस्तुनि कस्मिंश्चिदन्यधीान्तिमान् भवेदिति' . साहित्यचिन्तामणिकारः / कविसम्मतसादृश्यात् विषये पिहितात्मनि / आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः / / ' व इति विद्यानाथः / - तत्र न तावत्काव्यप्रकाशकारलक्षणं युक्तम् / स्मरणालबारेऽतिव्याप्तेः / तस्यापि प्राकरणिकतुल्यवस्तुदर्शने 'अन्यसंवेदनरूपत्वात् / ननु 'तत्तांशास्पर्शिज्ञानं संवेदनशब्देन विवक्षितमिति नोक्तदोष इति चेन्न / तथापि प्रमुषिततत्ताकस्मरणालंकारेऽ तिव्याप्तेः / ननु तचास्पर्शायोग्यज्ञानं तादृशम्रान्तिमानिति विवक्षितमिति नोक्तदोष इति चेत् न / प्राभाकर प्रत्यसम्भवप्रसङ्गात् / तन्मते 'धर्मिज्ञाने निरन्तरोत्पन्ने प्रमुषिततत्ताकस्मरणस्यैव * अतिव्याप्तिः- 'अन्यसंपादन-आ 'तत्रांशास्पर्शिज्ञानं-न 'तिव्याप्तिः-आ 'धर्मिज्ञाननिरन्तरोत्पन्न प्रमुषिततत्ताकस्मरणस्यैव-न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy