SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ परिणामालकारप्रकरणम् व्यामग्राह्यस्तनीमिश्शबरयुवतिमिः कौतुकोदश्चदक्षं कृच्छ्रादन्वीयमानः क्षणमचलमथो चित्रक्टं 'प्रतस्थे / 'आलम्बदण्डस्तव चापदण्डः' 'आज्ञामयी स्रजममन्दविलासलक्ष्मीः'. 'मरकतमया निःश्रेणिसत्कृपाणलते'त्यादिपरिणामोदाहरणेषु, . सौमित्रिमैत्रीचापदण्डादिविषयेषु आतरालम्बदण्डादिताद्रूप्यस्य प्रतीतेः / न च रूपके उपरञ्जकत्वमात्रम् / परिणामे तु वस्तुनः ताप्यमिति वाच्यम् / वास्तवतादरूप्यं कुत्राप्यसंभवात् / वाचनिकताद्प्य स्य उभयत्र अविशेषात् / न चतुर्थः / रूपकेऽपि स्वरूपापहाराभावात् / ननु तय विषयस्वरूपानपहारे साम्राज्यप्रतीतिः न युज्यते इति रूपकस्य रूपकत्वमपि न स्यादिति चेन्न / परिणामेऽपि तुल्यत्वात् / पूर्वरूपानपहारे परिणामस्य 'परिणामद्वयप्रसङ्गात् / अत एव 'आरोपविषयस्य स्यादतिरोहितरूपिण' इति विद्यानाथेन रूपके विषयस्वरूपस्यानपहारोऽपि 'कीर्तितः / न षष्ठः / वास्तवपरिणामस्य उभयत्रापि असंभवात् / वाचनिकपरिणामस्य उभयत्रापि तुल्यत्वात् / नापि सप्तमः / प्रतिवादिनं प्रति भाषायामनुक्तत्वात् / तत्वे वा प्रतिवादिना तद्विपरीतपरिभाषायाः कल्पयितुं शक्यत्वात् / 'नाप्यष्टमः / तस्यानिर्वचनात् / * तस्माद्भेदप्रधानभूतालकारबीजभूतरूपकात् परिणामो मिद्यत इति कृतं विस्तरेण / 1 स्रग्धरावृत्तम् / 'प्रश्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' * 'रूपकेऽपि ' इत्यारभ्य 'रूपकत्वमपि न स्यादिति चेन्न' इत्यन्तो भागः केवलं 'न'प्रतौ वर्तते / अन्यत्र सर्वासु प्रतिषु लुप्तः / * परिणामव्यभिचारप्रसङ्गात्- न द र्शितः-न ' 'नाप्यष्टमः / तस्यानिर्वचनात्' इत्ययं भागः 'न' प्रतौ लुप्तः /
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy