________________ . मकरसाधने विद्वन्मानसराजहंस वैरिकमलासकोचदीप्तधुते . दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर / सत्यप्रीतिविधानदक्ष विजयप्राग्भावमीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिश्चमुकै 'क्रिया॥ हेमाद्रेः कन्दरायां रतिरमणरणाटोपविच्छिन्नहारव्यस्तं मुक्ताफलानां तमसि तत इतस्तोममन्वेषयन्त्याः / कस्याश्चित्वंस्तरुण्या निकटगतिनिजप्राणनाथोपगीता कीर्तिज्योत्रा त्वदीया क्षणमकृत मुदं श्रीनृसिंह क्षितीन्द्र / / 'वर्षन्ते हरिदन्तरेषु जगदानन्दा यशस्कन्दळाः' इत्यादीनि प्राचा रूपकोदाहरणानि / तत्र सर्वत्र प्रकृतकार्योपयोगः सम्भवत्येव / राव्या कापालिकत्वरूपस्यैव द्वीपाद्वीपभ्रमणोपयुक्तत्वात् / सत्यप्रीतिविधानदक्षत्व. विजयप्राग्भावमीमत्वाद्यारोपस्यापि साम्राज्यकरणोपयुक्तत्वात् / कीर्ती ज्योत्स्ना. रूपस्यापि मुक्ताफलान्वेषणतत्परायाः तरुण्याः उत्कण्ठोपयुक्तत्वात् / यशसि कन्दळाद्यारोपस्यापि वृदयुपयुक्तत्वात् / लोके कन्दळानामेव द्विपत्रितत्वादिपरम्परया दिने दिनेऽभिवृद्धेर्दर्शनात् / 'न द्वितीयः / 'सर्वजनीनप्रतीति. मवलम्ब्य विवक्षया तयोः भेदं परिकल्प्य परिणामालकारकल्पने धर्मिकल्पनया कल्पनागौरवप्रसङ्गात् / न तृतीयः / परिणामेऽपि ताद्रूप्यप्रतीतेः / तीर्खा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीयः तस्मै सौमित्रीमैत्रिमयमुपकृतवानातरं नाविकाय / 'शार्दूलविक्रीडितवृत्तम् / 'सग्धरावृत्तम् / ''न द्वितीयः' इति पदद्वयं त,आ,म प्रतिषु नास्ति / 'विश्वजनीन-न