SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 64 बलकाररायचे इत्यादी आलम्बनदण्डत्वादीन्यनन्तान्यवच्छेदकानि इति वक्तव्यम् / तेषां च ग्रहीतुमशक्यत्वेन इलरभेदसाधने अज्ञानासिद्धिप्रसङ्गः / तस्मात् परिणामालं. कारलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते-'तर्कितयद्व्यतिरेकसत्ताविनाभूतसच्चाधिकरणतर्कितव्यतिरेकप्रतियोगिप्रकृतकार्यत्वे सति आरोपान्तरानुकूलारोपजिज्ञासानुत्पादकनिर्णीतविशेषांशतादात्म्यावस्थितैकारोपः 'परिणामालंकार' इति लक्षणनिष्कर्षः / : अत्र रूपकव्यावृत्यर्थ सत्यन्तविशेषणम् / परिणामस्थले आरोपव्यतिरेकप्रकृतकार्यव्यतिरेकयोः अप्रसिद्धत्वात् असंभवव्यावृत्यर्थ तर्कितपदद्वयम् / उल्लेखव्यावृत्यर्थ एकत्युक्तम् / तदवयवारोपव्यावृत्यर्थम् आरोपान्तरानुकूलजिज्ञासानुत्पादकेति (विशेषण) स्पष्टम् / स च परिणामः सामानाधिकरण्यवैयधिकरण्याभ्यां द्विविधः / (i) तत्र सामानाधिकरण्येन परिणामो यथा - प्रातस्समेत्य मघवादिसुरा 'वहन्ति नप्रैस्स्वकीयमकुटैरुरुमङ्गळाय / श्रीरामचन्द्रपदहंसकभासमान गारुत्मतोपलमयूखमयाच 'वाः || ' विषयी यत्र विषयात्मतयैव प्रकृतोपयोगी न स्वातन्त्र्येण, स परिणामः। (रसगाधर:-द्वितीयमाननम् ) ''विशेष' इति त,न प्रत्योः पाठः अस्ति / स तु 'विशेषणम्' इति गोधितः / धरन्ति–त,न * वसन्ततिलकावृत्तम् / 'उक्ता वसन्ततिलका तमजाजगी गः' इति तल्लक्षणं वृत्तरत्नाकरे /
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy