________________ परिणामालमारप्रकरणम् 63 इस्युल्लेखालंकारेऽतिव्याप्तेः। तत्र निर्णीतविषयविशेषांशतया अवस्थितस्यैव प्रकृतोपयोगित्वात् / ननु निर्णीतविषयविशेषांशात्मतयावस्थितन बारोप्यर माणस्य एतस्यैव प्रकृतोपयोगित्वं विवक्षितमिति नोक्तदोषः / तत्र अनेक स्यारोप्यमाणस्य प्रकृतोपयोगित्वादिति चेन्न / तथाप्युल्लेखालंकारे अतिव्यासः - ब्रह्मणापि 'दुर्वारत्वात् / न च सोऽपि परिणाम एवेति शमनीयम् / . अनेकपरिणामैरेवोपपत्तौ उल्लेखालंकारस्यैव दत्तजलाञ्जलितापत्तेः / अतो नालंकारसर्पस्खकारमतं लक्षणं युक्तम् / एतेन लक्षणान्तराण्यप्युक्तानि निरस्तानि बोमानि / किञ्च नन्वत्र किमिदं प्रकृतोपयोगित्वं; प्रकृतकार्यहेतुत्वं वा। आसेप्यमाणस्य विषयतादुरूप्यप्रतीतिमात्रापर्यवसायित्वं वा / आये अनुगतहेतुतावच्छेदकं विना हेतुत्वस्याग्रहात् / तत् वक्तव्यं, तत् किम् आरोपत्वं वा। परिणामत्वं वा / अन्यद्वा / नायः / तस्यातिरिक्तवृत्तिः त्वेनानवच्छेदकत्वात् / न द्वितीयः / तादृशारोपत्वस्य परिणामस्थलीयारोपज्ञानं विना दुबृहत्वात् आत्माश्रयप्रसङ्गात् / अत एव न तृतीयः / न चतुर्थः। तस्यानिर्वचनात् / नापि द्वितीयः / ताशपर्यवसायित्वस्य प्रकृतोपयोगित्वं विना ज्ञातुमशक्यत्वा दुक्तदोषानतिवृतेः / अननुगतावच्छेदककल्पने - ....... महोन्नतं वानरराज्यपीठं / समारलक्षोस्तपनात्मजस्य / / का अभूदिहाखण्डलसूतिवैरिन् ., आलम्बदण्डस्तव चापदण्ड: // 'दुर्निरित्वात्-त,न 'वक्तव्यम् ---आ - 'उक्तदोषानति वृत्तीन, 'उपेन्द्रवज्रावृत्तम्