SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 56 बलकाररावे मिति न तदानीमपि तत्रातिव्याप्तिरिति चेन्न । सन्देहे सन्दिद्यमानतया विषयतिरोधानवद्रूपकेऽप्यारोपाधिष्ठानतया 'शुद्धविषयस्वरूपस्य अनवभासेन तिरोधानसम्भवात् , असम्भवप्रसङ्गात् । ननु रूपके शुद्धविषयाप्रतीतावपि विषयप्रतीतेः न तस्स तिगेधानमिति चेन्न । तर्हि सन्देहालंकारे विषयस्य सन्दियमानत्वेऽपि 'स प्रतीयत एवेति न तिरोधानम् इत्यतिव्याप्तिस्तदवस्था । वस्तुतस्तु परिणामे न विषयस्वरूपापहारः । रूपके तु विषयस्वरूपम् अप. हृतमेवेति तिरोधानादसंभवः । तदुक्तं रत्नापणकारैः-- 'एवश्च यत्रारोप्य. सादप्यप्रतीतिमात्रपर्यवसायितया प्रकृतमपहृतस्वरूपम् अप्रकृतरूपापन्नं भवति तस्मात् रूपकात् परिणामस्य वैलक्षण्यं दर्शितं भवतीति । एतेन 'न रामोऽयं, नवाम्भोदो, न सीतेयं तटिल्लता' इत्यपहवे 'मेघबु-यामिनन्दन्ति राममालोक्य चातको ' इति भ्रान्तिमदलंकारे च अतिव्याप्तिः दृढनरैवेति बोध्यम् । तत्र प्रान्त्यपहवाभ्यां तिरोधानानीकारे प्रकृतेऽप्यारोपाधि. ष्ठानत्वेन 'तिरोधान इत्युक्तम् । 'किं तदुपरजकत्वं नाम, येन परिणामा. लकारव्यावृत्तिः स्यात् । विषयव्यन्जकत्वं का। तत्रातिशयप्रकाशकत्वं वा, प्रकृतानुपयोगित्वं वा । तत्र 'रूपकत्वकरणं वा । उपलक्षणतया व्यावर्तकलं वा। अन्यद्वा । नाद्यः । 'वर्धन्ते हरिदन्तरेषु जगदानन्दा यशः कन्दळा' इत्यादौ कन्दळानां यशोव्यन्जकत्वाभावेन असम्भवप्रसङ्गात् । न द्वितीयः । 'राममुद्रामयीं रक्षां दधार हनुमान् कपिः' इति परिणामा 'सिद्धविषयस्वरूपस्य-त 'चेत्तर्हि सन्देहालङ्कारेऽपि विषयस्य-त,न 'न प्रतीयत एवेति-आ 'तिरोधानसम्भव इत्युक्तम्-त,न " किं वेदमुपरजकत्वं नाम-त,न 'रूपत्वकरणं वा-त
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy