SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सकाराकरणम् मशक्यत्वात् । तद्वक्तव्यम् । तत् किं परिणामाद्यलंकारत्वं वा रूपकत्वं वा । नाधः । तस्यातिरिक्तवृत्तित्वेनानवच्छेदकत्वात् । नेतरः । आत्माश्रयप्रसहात् । तथा चेतरभेद सामनेऽज्ञानासिद्धिप्रसङ्गात् । ननु प्रकृतानुपयोगित्वेन विशेषणान्न परिणामालंकारे अतिव्याप्तिरिति चेत् न । प्रामुक्तविशेषणविशिष्ट. भेदस्यारोप्यविषयोपरजकत्वे प्रकृत एव उपयुक्तत्वेन असम्भवप्रसमात् । ननु आरोपविषयोपरजकत्वव्यतिरिक्तप्रकृतकार्यानुपयोगित्वं विवक्षितमिति नोक्तदोष इति चेत् न । अवच्छेदकानवगमेन उपरञ्जकत्वस्य दुर्महत्वात् तद्विशिष्टलक्षणस्यापि दुर्घहत्वेन. उक्तदोषानपायात् । ततः काव्यप्रकाशकारलक्षणं न युक्तम् । एतेन अलङ्कारसर्वस्वकारादिलक्षणत्रयमपि निरस्तम् । विद्यानाथ. लक्षणे सन्देहालकारेऽतिव्याप्तिः। ननु तत्रातिरोहितरूपिण- इत्यनेन तव्यवच्छेदः सिद्धः । तत्र विषयस्य सन्दिह्यमानतया अतिरोधानादिति चेत् हन्त, तहि मास्तु शुद्धसंशयालकारे अतिव्याप्तिः । तथापि - किमयं नीलजीमूतः किं वा तापिञ्चपादपाः । । - जाने 'पुनःप्रसन्नो मे दृश्यते रघुनन्दनः ॥ . इति निश्चयपर्यवसायिसंशयालंकारे' अतिव्याप्तिः दुरुद्धरा । तत्रारोपविषयरामादेः अतिरोधानात् । ननु तत्राप्यारोपदशायां विषयतिरोधानमस्त्येवेति नोक्तदोष इति चेत् न । अस्माभिनिश्चयपर्यवसानदशाया मतिव्याप्त्युत्थापनातदपरिहारात् । नन्वारोपदशायाम् अतिरोहितरूपिण इति लक्षणे विशेषित ' परिणामान्यलंकारत्वं वा-आ,न 'साधने अज्ञानासिद्धि-न ... 'निरस्तं बोध्यम् । विद्यानाथलक्षणे--तन, 'पुरः प्रसन्नो-त ... *मतिव्यायुद्भावनात्-त,न ...
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy