SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ रूपकालङ्कारप्रकरणम् लकारे अतिव्याप्तिः। तत्रारोप्यमाणरक्षात्वादेः आरोपविषयराममुद्रिकादेः अशेषोपद्रव निवर्तकक्षमत्वरूपातिशयस्य प्रकाशनात् । न तृतीयः । उक्तो. तरत्वात् । न चतुर्थः । रूपवत्वकरणस्य परिणामेऽपि संभवात् । अत एव न पञ्चमः । नापि षष्ठः । तस्मानिरूपणात् । तस्मात् रूपकालझारलक्षणं दुर्निर्वचमिति चेत्-अनोच्यते । अपहवानविनाभूतानियतकोट्यनवगायबुद्धिपूर्वकारोपान्योन्या भावाधिकरणप्रकृतप्रधानकान्योपयोगित्वात्यन्ताभावाधिकरणारोपो रूपकम् ' इति लक्षणनिष्कर्षः । अत्र प्रथमविशेषणेन अपहव. व्यावृत्तिः । अनियतेत्यादिद्वितीयविशेषणेन सन्देहव्यावृत्तिः । अबुद्धिपूर्वकेल्यादितृतीयविशेषणेन आन्तिमव्यावृत्तिः । प्रकृतेत्यादिचतुर्थविशेषणेन परिणामव्यावृत्तिः । न च उत्प्रेक्षादावतिव्याप्तिशावकाशः । तस्य अनारोपरूपत्वादिति 'सर्वत्र सादृश्यमूलालद्वारेभ्यो विलक्षणम् । ___ तत् सावयवनिरवयवपरम्परितभेदात् त्रिविधम् । सावयवमपि समस्तवस्तुविषयम् एकदेशविवर्ति चेति द्विविधम् । निरवयंवमपि केवलमालारूपेण द्विविधम् । परम्परितमपि द्विविधं शिलष्टनिबन्धनम् अश्लिष्टनिबन्धनं चेति । तयोरपि प्रत्येकं केवलमालारूपेण चतुर्विधतया रूपकम् अष्टविधात् नातिकामति । 1 निवर्तनक्षमत्व - * भावानधिकरण-त '' उपमेयतावच्छेदकपुरस्कारेण उपमेये शब्दाग्निश्चीयमानमुपमान. तादात्म्यं रूपकम् । तदेवोपस्कारकत्वविशिष्टमलंकारः' । .. (रसगाधरः-द्वितीयमाननम्) * 'सर्वत्र' इति पदम् 'आ' प्रतौ नास्ति ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy