________________
स्मरणालंकारप्रकरणम्
53
इति लक्षणनिष्कर्षः । अत्र जन्यत्वागत्वात् न पूर्वोक्तदोषः । उदाहरणम् -
त्वां मार्गमाणो विपिनेषु रामो
_ विलोक्यते नूपुररस्नमेकम् । सहायशून्येतरनूपुरस्य
संस्मृत्य सीते समुपैति चिन्ताम् ॥
.. -x
अथारोपपेटिका- (रूपकालङ्कारः) उपमापेटिकानन्तरं साधर्म्यमूलत्वात् आरोपपेटिकेति पेटिकयोस्सङ्गतिः । तत्र अभेदप्रधानरूपकाद्यलङ्काराणां निरूपणे कर्तव्ये, बहुभेदवत्वेन अभेद. प्रधानालङ्कारमूलत्वेन तथारूप, रूपक निरूपणमुचितमित्यवान्तरसङ्गतिः । ननु ' सूचीकटाहन्यायेन' परिणामादीनामेव प्रथमतो निरूपणं किंन्नस्यादिति चेत्-उच्यते । यत्र अल्पनिरूपणेन अधिकप्रयोजनसिद्धिः कालविलम्ब न सहते तत्रैव सूचीकटाहन्यायावतारः । प्रकृते तु न तथेति तन्निरूपणमेव युक्तम् । ननु-' तद्पकमभेदो य उपमानोपमेययोरिति' काव्यप्रकाशकारः। 'अभेदप्राधान्ये आरोपे आरोपविषयानपहवे रूपकमि'त्यलकारसर्वस्वकारः । 'तद्पकमारोपे यत्रापयते न तद्विषय' इति विद्याधरः । तद्रूपक. मारोपो यो विषयस्यानपहवैक्यम्' इति साहित्यचिन्तामणिकारः ।
आरोपविषयस्य स्यादतिरोहितरूपिणः ।
उपरञ्जकमारोप्यमाणं तद्रूपकं मतम् || इति विद्यानाथः । तत्र न तावत्काव्यप्रकाशकारलक्षणं युक्तम् । यथाश्रुतेऽपहवालङ्कारे 'अति.
1 उपजातिवृत्तम् ३. निरूपणमनुरूपमित्यवान्तरसङ्गतिः-न 'अतिव्याप्ति -न