________________
मलकारराघवे
अथ स्मरणालङ्कारः भेदाभेदप्रधानसाधर्म्यमूलत्वे तुल्येऽपि स्मरणालङ्कारस्य स्ववाचकशब्देनावाच्यसाधर्म्यमूलत्वात् अनन्वयोपमेयोपमापेक्षया जघन्यत्वात् , अत्र निरूपणमुचितम् -इत्यवान्तरसङ्गतिः। यद्वा भेदाभेदप्रधानालङ्कारप्रस्तावे परिशेषात् स्मरणालबारनिरूपणमुचितमित्यवान्तरसङ्गतिः । पेटिकासङ्गतिस्तु स्पष्टैव । ननु 'यथानुभवम् अर्थस्य दृष्टेः तत्सदृशे स्मृतिरि 'ति काव्यप्रकाशकारः । 'सदृशानुभवात् वस्त्वन्तरस्मृतिः स्मरण 'मित्यलङ्कारसर्वस्वकारः । ‘स्मरण सदृशार्थत्य दर्शना'त्सदृशस्मृतिरिति' साहित्यचिन्तामणिकारः। 'सदृशं सदृशानुभवाद्यत्र स्मर्येत तत्स्मरणम्' इति विधाधरः । 'सदृशानुभवादन्य. स्मृतिः स्मरणमुच्यते' इति विद्यानाथः । तत्र सर्वत्र सदृशदर्शनजन्यसदृशवस्त्वन्तरस्मृतिः स्मरणमिति' निष्कृष्टार्थः । तत्र वक्तव्यम् । सदृश. दर्शनजन्यतावच्छेदकं किञ्चिदस्ति न वा । नान्त्यः । तदसत्वे तज्जन्यताया एव दुमेहत्वेन इतरभेदसाधने अज्ञानासिद्धिप्रसङ्गात् । आयें तत् किं स्मृतित्वं बा । सदृशदर्शनजन्यस्मृतित्वं वा । 'स्मृतिव्यतिरिक्तस्मृतित्वं वा । अन्यद्वा । नायः । तस्य अतिरिक्तवृत्तित्वेन अनवच्छेदकत्वात् । न द्वितीयः । अन्योन्याश्रयप्रसङ्गात् । न तृतीयः । तादृशस्मृतित्वस्य सदृशदर्शनजन्यता. अहं विना दुर्घहत्वात् । उक्तदोषानपायात् । नान्त्यः । अनिर्वचनात् । तस्मात् स्मरणालङ्कारलक्षणं दुर्निर्वचमिति चेदत्रोच्यते-'यद्व्यतिरेकप्रयोजकव्यतिरेकप्रतियोगिसदृशदशनं 'तादृक्स्मरणोपनिबन्धः ‘स्मरणालङ्कारः'
'सदृशं स्मृतिरिति-त ' सदृशदर्शनजन्यस्मृतिव्यतिरिक्तस्मृतित्वं वा-त,न * तादृशस्मरणोपनिबन्धः-त,न • ' सादृश्यज्ञानोबुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालङ्कारः' ।
(रसगङ्गाधरः-द्वितीयम् आननम् )