________________
50
काव्यप्रकरणम्
अथ काव्यस्वरूपं निरूप्यते
ननु – " शब्दार्थयुगलं काव्यं निर्दोषं गुणसंयुतम् । अलङ्कृतमलङ्कारैरनलङ्कृति वा क्वचित् ॥
इति साहित्यचिन्तामणिकारः ।
" तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि " इति काव्यप्रकाशिकाकारः ।
“अर्थवर्णात्मकं कविकर्म काव्यमिति' एकावलीकारः । "उज्वलपदं श्लाघनीयबन्धार्थ 'रसानुबन्धसरसं
'अदोषौ सगुणौ सालङ्कारौ शब्दार्थी काव्यम्'
इति विद्यानाथः ।
?
- अलक्काराचे
कविकर्म काव्यमिति' मदनादयः ।
।
तत्राद्यं तावन्न युक्तम् । प्रथमलक्षणस्य अनतिकाव्ये अव्याप्तेः । द्वितीयलक्षणस्य सालङ्कृतिकाव्ये अव्याप्तेः । ननु तत्र प्रथमार्धमेव काव्यलक्षणम् । शेषं तु तत्स्वरूपकथनपरमिति चेन्न । सर्वदोषराहित्यस्य रघुवंशमाघादावप्यभावेन असम्भवापत्तेः । यत्किञ्चिद्दोषराहित्यस्य गुणानां च वेदेऽपि सम्भवादतिव्याप्तिप्रसङ्गात् ।
अत एव 'काव्यप्रकाशिकाकारलक्षणमपि न युक्तम् । नापि तृतीयलक्षण युक्तम् । पौरुषेयवेदवादिमते वेद एवातिव्याप्तेः । ईश्वरस्यादि कवित्वेन तस्य
1 रसानुबन्धसुरसं द
2 काव्यप्रकाशकारलक्षणं न युक्तम् - द