________________
काव्यप्रकरणम्
तत्कर्मरूपत्वात् । नापि चतुर्थ युक्तम । श्लाघनीयबन्धार्थ कविकर्म काव्यम् इत्येतावत्येव लक्षणे सम्भवति व्यर्थविशेषणत्वात् । नापि विद्यानाथलक्षणं युक्तम्। मनलकृतिकाव्ये अव्याप्तेः। 'काव्यापकर्षहेतुः दोषः' इति तन्मते दोषनिर्वरनात् । दोषज्ञाने काव्यज्ञानं, काव्यज्ञाने दोषज्ञानम् इत्यन्योन्याश्रयाच्च । किञ्च 'कविकर्तृकमात्रस्यैवेदं लक्षणं, किं वा काव्यव्यवहारविषयस्य। नायः । 'कविकर्तृकशास्त्रादावव्याप्तेः। तत्र सगुणसालङ्कारत्वाभावात् । ननु कविदशापन्नकृता कृतिः कविकृतिः। तस्या एवेदं लक्षणम् । शाखादिकं तु विद्वदशापन्नकृतिः। अतो नाव्याप्तिरिति चेन्मैवम् । प्रान्तोऽभूः । कविविदुषोः पर्यायत्वात्। 'संख्यावान् पण्डितः कवि' रिति अमरकोशकारवचनादकवेरपण्डितत्वात्। ननु तथापि नाव्याप्तिः। शास्नादावपि स्वभावोक्त्याचलङ्कारसम्भवात् । यत्किञ्चिद्गुणसम्भवात् दोषाभावाच्चेति चेन्न । तत्र स्वभावोक्तेः सहृदयहृदयचमत्कारित्वाभाषेन अलङ्कारस्वाभावात् । अन्यथा अतिप्रसङ्गात्। नेवरः। उक्तदोषात्। ननु वेदोऽपि काव्य. मेवेति नोक्तदोष इति चेदुच्यते। वेदस्य तार्किकादिमते परमेश्वरप्रणीतत्वेन काव्यत्वसम्भवेऽपि न तत्र तेषामिव इतरेषां काव्यत्वव्यवहारः। येन तान् प्रति नातिव्याप्तिस्स्यात् ।
मीमांसकादिमते तु वेदस्य नित्यत्वेन सुतरां न काव्यव्यवहारः इति
1 कविकृतमात्रस्यवेद-त . कविकृतशास्त्रादावव्याप्तेः-द। ' शास्त्रादावबुद्धिस्वभावोक्त्याद्यलङ्कारसंभवात् किञ्चिद्गुणसम्भवात्-द • तत्र स्वभावोक्तिः सहृदय-द • तेषामेव-त • मीमांसकमते तु-म