SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ अलङ्कारराषवे नातिव्याप्तितो मुक्तिः। किञ्च 'नाटकादावव्याप्तिः। तत्र रघुवंशादिकाव्यादाविव 'रून्या नाटकादिभेदव्यवहारस्याकस्मिकतापत्तेः। नन्वत्र अर्थशब्देन 'अष्टादशवर्णात्मकं विवक्षितमिति नोक्तातिव्याप्तिरिति चेन्न । सामरत्वेनाष्टादशवर्णनात्मकत्वस्य माघमेघसन्देशादावप्यसम्भवात् । नगरादियत्किञ्चिद्वर्णनस्य वेदनाटकादावपि सम्भवात्। वेदेऽपि देवासुरसमामादिवर्णनात् । 'देवासुराः संयत्ता आसन् ' इति, 'देवानां पूरयोध्ये' त्यादौ 'नगरादिवर्मनस्याविर्भावात् । ननु तद्वणनप्राधान्य लक्षणार्थ इति नोक्तदोष इति चेन। रघुवंशरामायणादावव्याप्तिप्रसङ्गात् । तस्य वर्णनाप्राधान्येना. प्रवृत्तः। तत्त्वे वा 'रघूणामन्वयं वक्ष्ये' इति कालिदासप्रतिज्ञाविरोधप्रसङ्गात् । न च तद्वर्णनाप्राचुर्य लक्षणत्वेन विवक्षितमिति वाच्यम् । वेदानर्घराघवादावपि तत्प्राचुर्यसम्भवात । ननु रघुवंशादेरपि तद्वर्णनाप्राधान्येनैव प्रवृत्तिः। कविप्रतिज्ञा तु निजकाव्यस्य पुण्यश्लोकचरितनिवन्धन रूपत्वरोचनार्थमिति चेदुच्यते। रघु. वंशादेः तद्वर्णनाप्राधान्येनैव प्रवृत्तिरिति कुतो ज्ञायते। ननु काव्यत्वेन 1 नाटकादावतिव्याप्तिः-त 'हल्या काव्यव्यवहाराभावात् , सत्वे वा काव्यनाटकादिभेदव्यवहारस्य आकस्मिकतापत्तेः-त • अष्टादशवर्णनात्मकम्' इत्यारभ्य यत्किञ्चिद्वर्णनस्य वेद-इति पर्यन्तं 'त' पुस्तके न दृश्यते। • नगरादिवर्णनस्यापि दर्शनात्-त तद्वर्णनात् प्राधान्यं-द • कालिदासप्रतिज्ञाविरोधाप्रसङ्गात् -त १ रूपत्वसूचनार्थमिति-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy