SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 53 काव्यप्रकरणम् ज्ञायत इति चेत्तर्हि स्पष्ट एवं अन्योन्याश्रयः। काव्यत्वे सिद्ध तद्वर्णना'प्राधान्यसिद्धिः। तसिद्धौ काव्यत्वसिद्धिरिति । एतेन 'कृन्ति विसेसो कंव' इति कर्पूरमञ्जरीकारलक्षणमपि निरस्तं बोध्यम् । तस्याननुगमात अव्याप्तेरनपायात् । शास्त्रादावतिव्याप्तिश्च। तस्मान्नेदं काव्यरक्षणमिति चेन्न। अत्रोच्यते-'वेदवेदोपजीविनाव्यप्रधानप्रबन्धप्रतियोगिकान्योन्याभावाधिकरणत्वे सति नित्यदोषरहितसगुणशब्दार्थों काव्यम्' इति लक्षणनिष्कर्षः। अत्र सत्यन्तविशेषणेन वेदव्याकरणस्मृतीतिहासपुराण. नाटकादावतिव्याप्तिः परिहृता भवति। रूढ्या काव्यव्यवहारविषयस्यैव लक्ष्यत्वानोक्तविकल्पः प्रसरति । गुणदोषालझारलक्षणानि काव्यगर्भाण्येवास्माभिर्विवक्ष्यन्त इति नान्योन्याश्रयदोषः। दोषनित्यत्वश्चामियुक्तवचनात् ज्ञातव्यम्। न च काव्येष्वनित्यदोषाङ्गीकारे । तदल्पमपि नोपेक्ष्य। 'काव्ये दुष्ट कथचनेति दण्डीवचन विरुद्धं स्यादिति वाच्यम्। तस्यापि नित्यदोषाभिप्रायत्वात् । भन्यथाऽसम्भवापत्तेः । शब्दार्थाविति द्वित्वं ग्राहकत्व वदविवक्षितं बोध्यम्। अतो निरवचं काव्यलक्षणम् । तत्र काव्यरूपसरस्वत्याः शब्दार्थों मूर्तिः व्यङ्ग्यं जीवितम् । अलङ्कारः 1 प्राधान्यसिद्धेः-त 'जुन्ति विसेसो-म • अव्याप्तेरनुपायात् - म * तस्मानवं काव्यलक्षण-द • निर्वक्ष्यन्त इति -म
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy