________________
34
.
अलकारराघवे
दर्पसामर्थ्य भूयिष्ठत्वेऽपि सति चण्डवृत्तिविकत्थनो 'धीरोद्धतः । ___विकस्थनो धीरोद्धत इत्युक्ते तादृश्यसमर्थे अतिव्याप्तिः। तदर्थ दर्पसामर्थ्यभूयिष्ठत्वे सतीत्युक्तम् । तावत्युक्ते धीरोदात्ते अतिव्याप्तिः। तन्निवृत्त्यर्थ विकस्थत इत्युक्तम् । न च विकत्थनत्वमसम्भवदित्याह-चण्ड. वृत्तिरिति । दर्पसामर्थ्यभूयिष्ठत्वे सति मायावित्वम् , तत्त्वे सति सुलभक्रोधत्वं वा धीरोद्धतत्वम् । यथा
स्त्रीचोरं परिमार्गातु रघुपतेर्दासोऽहमत्रागतः छित्वा सज्जतमानि सप्त विदधे शूलानि सालानयम् । अध्यारोपयितुं तमाप्तसहितं स त्वं समाप्योऽहितं भुक्ष्वेति प्रजगाद मारुतसुतो लङ्काधिपस्याग्रतः ॥
अत्र हनूमतः धीरोद्धतत्वम् ।
1 (i) दर्पमात्सयभूयिष्ठो मायाछद्मपरायणः । . धीरोदतस्त्वहंकारी चलश्चण्डो विकत्थनः ॥
(दशरूपकम्-प्रकाश:-२-५) ii) दर्पमात्सर्यभूयिष्ठः चण्डवृत्तिर्विकथनः । मायावी सुलभक्रोधः स धीरोद्धत उच्यते ॥
_ (प्रतापरुद्रीये-काव्यप्रकरणम्-३०) iii) मात्सर्यवानहङ्कारी मायावी रोषणश्चलः । विकत्थनो भार्गवादिः धीरोद्धत उदाहनः ।
(रसार्णवसुधाकर:-प्र. वि. ७०)