________________
नायकाणाः
तदर्थ महासत्व इति। तावत्युक्ते कदाचिदविकत्थनत्वं धीरोद्धतेऽपि, तेन तद्दोषतादवस्थ्यम् । तदर्थ कृपावानिति। तावत्युक्ते धीरललिते अतिव्याप्तिः। तदर्थमतिगाम्भीर्यसत्वे सतीति। ननु कदाचित् कृपावत्त्वं लक्षणान्तर्गतं सर्वदा वा। नाद्यः धीरोद्धतेऽपि सम्भवात्। नान्त्यः । असम्भवापत्तेः। श्रीरामादेरपि वाल्यादिवधकाले 'कृपाराहित्यस्य सत्वादिति चेन्न। प्रायशो वधार्हदशाऽकालीनकृपावत्वस्यैव लक्षणान्तर्गतत्वात् ।
अवस्सूक्तमुक्तं लक्षणम् । यथा"आलोक्याध्वनि ताटकामभिगतामाकम्पयन्तीं दिशो
रामस्तामनुकम्पमानहृदयो गाधेयसश्चोदितः । सन्दृष्टयर्पणचोदितेन कलितं सौमित्रिणा कार्मुकं
सोऽधिज्यं विरचय्य मन्दवलितग्रीवो लुलोके शरम् ॥
*ताटका स्त्री इति कारणेन तां दृष्ट्वा एकत्र दया, अन्यत्र, तां जघनिथेति गुर्वादेशः। तदनुगुणतः सौमित्रिणा कार्मुक सज्जीकरणम् । कार्मुकदर्शनमात्रेण रामस्य शरे दृष्टिपातः इति तत्कालीनसन्निवेशचित्रणमेतत् ।
1 कृपाराहित्यसम्भवादिति-त ' वधार्हवदकालीन-द