________________
अलङ्ककारराघवे
अथ नायकविशेषा निरूप्यन्ते धीरोदात्तो धीरोद्धतो धीरललितो धीरशान्त इति चत्वारो 'नायकाः सर्वरससाधारणाः ।
तत्र महासत्वगाभीर्यकृपावत्वे सत्यविकत्यनत्वं धीरोदातत्वम् । महासत्वो धोरोदात्त इत्युक्ते धीरोद्धते अतिव्याप्तिः। तन्निवृत्त्यर्थमविकत्थन इति । तावत्युक्ते असमर्थेऽतिव्याप्तिः ।
1j) भेदैश्चतुर्धा ललितशान्तोदात्तोद्धतैरयम् ॥
(दशरूपकम् प्रकाशः २-३) ii) उदात्त उद्धृतश्चैव ललितः शान्त इत्यपि । धीरपूर्वा इमे पूर्वैश्चत्वारो नायकाः स्मृताः ॥
(प्रतापरुद्रीये-काव्यप्रकरणम्-२७) iii) नेता चतुर्विधोऽसौ-धीरोदात्तश्च धीरललितश्च धीरप्रशान्तनामा.
ततश्च धीरोद्धतः ख्यातः- (रसाणवसुधाकरः प्र. वि. ७२-७३) i) महासत्वोऽतिगम्भीरः क्षमावानविकत्थनः । स्थिरो निगूढाहंकारो धीरोदात्तो दृढवतः ।।
(दशरूपकम् प्रकाशः-२-४) ii) महासत्वोऽतिगम्भीरः कृपावानविकस्थनः ।
प्रतापरुद्रवद्धीरो धीरोदात्तः स संमतः ।। (प्र.रु. का. प्र.२७) i) दयावानतिगम्भीरो विनीतः सत्वसारवान् ।
दृढव्रतस्तितिक्षावानात्मश्लाघापराङ्मुखः । निगूढाहंकृतिर्षी रैः धारोदात्त उदाहृतः ।। (र. सु.प्र वि. ७३-७४)