________________
22
.
अलकारराघवे
महातात्पर्येण प्रबन्धा 'आरभ्यन्ते । न तु नायकचरित्र इत्यसंभव. प्रसङ्गः। किञ्च प्रबन्धप्रतिपाद्यत्वं नाम तत्प्रतिपदनयोग्यत्वम् । तथा च प्रतिपादनयोग्यतावच्छेदकसत्वे तदेव लग युक्तम्। तज्ज्ञानाधीनज्ञान. स्वादेतस्य तदसत्वे तदपरिचयात् लक्षणमेव दुर्निश्चयं स्यात् । तस्मात् नायकलक्षणं दुर्निर्वचमिति चेत् अत्रोच्यते
-'तत्तत्प्रबन्धानुगुणकविवर्ण्यमानगुणाधिकरणपधानपुरुषत्वं नायकत्व. मिति नायकलक्षणम्। इदं कल्पिताकल्पितयोरुभयोरपि संभवति । न च विदूषकादेः 'प्रधानपुरुषत्वमिति नातिव्याप्तिदोषोऽपि लगति। प्रहसननायकादेरपि तदनुगुणगुणाधिकरणत्वं संभवतीति नाव्याप्तिदोषप्रसक्तिः ।
प्रधानपुरुषत्वमात्रं प्रबन्धाऽनङ्कितबहिष्कृतपुरुषे अतिव्याप्तम्। तदर्थ प्राचीनप्रतीकम् । न च सोऽपि नायक एवेति नोक्तदोष इति वाच्यम् । 'पर्वतो वह्निमान्' इत्युदासीनवाक्यस्य न्यायानवयवत्ववत् प्रबन्धानकितपुरुषस्यानायकत्वात् । तत्र लौकिकानां नायकव्यवहारस्तु भाक्तः । मुख्यत्वे वा "प्रबन्धनायकस्येदं लक्षणमिति न कोऽपि दोषः। नन्वेवमप्यनादिप्रबन्धरूपवेदान्तनायके 'परब्रह्मण्यव्याप्तिमिदम्। तस्यापौरुषेयवेदवादिमते
_
1 रच्यन्ते-द
न मे नायकचरेत्र-म ' लक्षणम्-त 'पुरुषत्वमिति-त - i) तत्प्रकारकाणां नायकव्यवहारस्तु भाक्तः-त
ii) तत्प्रकाशिकानां नायकव्यवहारस्तु भाक्तः-द • प्रबन्धनायकस्यैवेद-त ' परब्रह्मण्यव्याप्तम् इदं स्यात् । पौरुषेय-त-द