________________
नायकनिरूपणम्
अव्याप्तिः प्रसरति । तस्य मध्यमाधमनायकत्वात् । तदुक्तं शिङ्गभूपालेन -'मध्यः कतिपयहीनो बहुगुणहीनोऽधमो 'नामेति चेत् , नेदमुत्तमनायकलक्षणं युक्तम् । निर्गुणस्य परब्रह्मणो वेदान्त शास्त्र नायकत्वानुपपत्तेः ।
____ननु सगुणब्रह्मवादिनोऽनुसारेणेदं लक्षणद्वयं युक्तमिति चेन्मैवम् । 'तथा हि-इदानी सगुणब्रह्मवादिनं न भेदसाधक(प्रमाणा)न्यतरासिद्धः। दुर्निवारस्वात् । तस्मान्नायकलक्षणद्वयमिति वक्तुं न युक्तम् । नन्वस्तुं तर्हि द्वितीयः कल्पः । नायकस्वरूपकथनपरमेवेदम् । एतादृशेन नायकेन भवितव्यमिति। तत्सामान्यलक्षणं तु प्रबन्धप्रतिपाद्यपुरुषत्वं नायकत्वमिति चेतदपि न चतुरश्रम्। माणप्रहसनादिनायक स्वरूपत्यानीहशत्वान्नायकविशेषस्वरूपकथनपरमेतदिति चेन्मैवम् । वक्ष्यमाणप्रबन्धमात्रनायकस्वरूपस्यैव अपेक्षितत्वात् । अपेक्षितस्यैव स्वरूपकथनात् औचिस्यात् सामान्यस्यैव प्रथमतो निरूपयितुमुचितत्वात् । यदुक्तं तत्सामान्यलक्षणम - 'प्रबन्धप्रतिपाद्यपुरुषत्वमिति' तदपि न युक्तम् । विदूषकादेरपि नाटकादिनायकत्वापत्तेः। ननु तात्पर्येण प्रबन्धप्रतिपाद्यपुरुषत्वं नायकत्वमिति नोक्तदोष इति चेन्न । तत्रैवावान्तरतात्पर्य संभवात् । ननु महातात्पर्येण प्रतिपाद्यपुरुषत्वं नायकत्वमिति चेदुच्यते। कविभिः 'स्वकीयांधानेन
1 नामेतीति चेत्-द ' नायकत्वानुपपत्तिः-म ३ वादिमतानुसारेण-त • तथापि निर्गुणब्रह्मवादिनं प्रति इतरभेदसाधने अन्यतरासिद्धः दुर्निवारत्वात् । -त
स्वरूपस्यासहशत्व त् । ननु नायक-त 6 'नाटकादि' इति पदं त पुस्तके नास्ति। नायकत्वापत्तेः-इत्येवास्ति । १ स्वकीया॑दावेव महातात्पर्येण-त