________________
नायक निरूपणम्
नायक निरूपणम्
अलङ्कारो मुख्यो हरिणनयनानां तु पुरुषो कलैवालङ्कारो जगति पुरुषाणामनुपमः ।
कलालङ्काराणां प्रतिकलमलङ्कारवचसामलङ्कारो रामो जयति भुवनेऽनुत्तमतमः ॥ अथ सर्वप्रबन्धप्रतिष्ठा बीजभूततया नायको निरूप्यते । ननु
'नायको गुणवान् पुमानिति' रसार्णवसुधाकरकारः । 'आश्रितो धार्मिको शूरः कृतज्ञो रूपवान् युवा । तेजस्वी धैर्यगाम्भीर्य दक्षदौवार्य संशयः ॥ प्राज्ञश्वापि महाभागो नायकः परिकीर्तितः ॥
इति साहित्यचिन्तामणिकारः ।
"यशः प्रतापसुभगो धर्मकामार्थतत्परः । धुरन्धरो गुणाढ्यश्च नायकः परिकीर्तितः ॥ इति विद्यानाथः ।
2*
"नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिर्वाग्मी रूढवंशः स्थिरो युवा ॥ बुद्धघुत्साहस्मृतिप्रज्ञ | कला मानसमन्वितः । शुरो दृढश्व तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥
19
(दशरूपकं - द्वितीयप्रकाशः १-२ श्लो)