________________
उपोद्घातप्रकरणम्
15
कदाचनेति निरोष्ठयादेवैचित्र्यदर्शनात् । नन्वेवं ताथवादावधिकरणेष्वेव स्वभावोक्त्याद्यसङ्कारजातभ्योपयोगनिरूपणादलङ्कारशास्त्रारम्भणं व्यर्थमेवेति चेन्मैवम् । अलङ्कारत्वेन सर्वालङ्कारनिरूपणार्थमलङ्कारशास्त्रप्रवृत्तः । अत एवालङ्कारशास्त्रेण सह त्रयोदशलक्षणी पूर्वमीमांसेत्यालङ्कारिकमतरहस्यम् । सूत्रकारस्तु भगवान् जैमिनिः पुरुषान्तर प्रयत्नलब्धत्वेन मलकारजातं न सूत्रितः वान् । न च कर्तृभेदमात्रेण एकशास्त्रत्वाभावः । बहुकविकृतकाव्यादे रेककाव्य. स्ववत् कर्तृभेदेऽप्येक शास्त्रत्वोपपत्तेः । ननु तर्हि आलहारिकाः किमिति वेदवाक्यानि नोदाजदुरिति चेदुच्यते। पण्डितपामराणां सर्वेषां सुखज्ञानार्थ काव्यश्लोकोदाहरणं न वेदवाक्यानामनुदाहरणत्वान्नोदाहरणमादरणीयमिति न्यायात् । अत एव अध्ययन विधिरेव अलङ्कारशास्त्रकर्तव्यताबोधकं मूलप्रमाणमवगन्तव्यम् । तथा हि- स्वाध्यायोऽध्येतव्य' इत्यध्ययन विधिरर्थावबोधार्थमध्ययन विदधानोऽलक रशास्त्रारम्भ विना सालङ्काररसगुणनिर्दोषवेदार्थज्ञानासम्भवात् तदर्थमलङ्कारशास्त्रारम्भमप्याक्षिपतीति भवत्यध्ययनविधिमूलप्रमाणम् । न च अध्ययनविधि स्थावबोधनफलमिति वाच्यम् । विग्यसामर्थ्यलभ्यार्थावबोधस्य
1 i) नीरोष्ठयादिवैचित्र्यदर्शनात्-द ___ii) नीरोष्टयादेः वैचित्र्यदर्शनात्-त २ तस्यार्थवादाद्यधिकरणेषु-त
एकवाच्यत्ववत्-प ' शास्त्रोपपत्तेः-म
वाक्यश्लोकोदाहरणं-म • विधेरेव-त १ विधिरर्थवाद्यबोधार्थम्-द • अलङ्कारशास्त्रारम्भणं विना-त १ तदर्थालङ्कारशास्त्रारम्भम्-म 10 अर्थावबोधो न फलमिति-द