________________
14
अलङ्ककारराघवे
अनित्यदोषत्वेन तत्सम्भवात् । तदुक्तमेकावलीकारेण-"न्युतसं कृतप्रभृतीन 'दोषाणां नित्यत्वं श्रुतिकटुप्रभृतीनाञ्चानित्यत्वमिति । अत एव 'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये' शष्पानविकीर्णदशार्धवाणाः' इति 'महाकाव्येष्वपि
ग्राम्योक्तिरविरोधात्। अत एव यः करोति प्रिय कारिणोऽधिकं ततोऽधि. कस्मासु समं प्रयच्छति' "असुप्रदातस्तु किमस्य देयं तृणीबभूवैव विचित्य राघव' इति वंशस्थरामायणे तु "कुसन्धिरपि प्रयुक्त इति द्रष्टव्यम्। ननु शब्दा. लङ्कारनिरूपणस्य वेदे कुत्रोपयोगः । तेषामनुष्ठानोपयोगासम्भवात् इति चेन्न ।
वसोस्सूनुं सहसा जातवेदसम्' जातवेदसमिति सदृशालङ्कारज्ञानस्य प्रामाण्यनिरूपणवद्वेदस्यादरणीयत्वज्ञानद्वारोपयोगसम्भवात् । न च वेदे शब्दचित्राणामदर्शनमिति शङ्यम् । न यस्य हन्यते सखा न जीर्यते
1 च्युतसंस्कृतिप्रभृतीनां-त • दोषनित्यत्वम्-म ' शष्पमप्रे विकीर्ण दशार्धबागा: इति-त • महावाक्येष्वपि-द
ग्राम्योक्तेरविरोधः-त • च प्रिय करोति प्रियकारिणोऽधिकं-त 7 प्रियकारिणोऽधिकं ततोऽधिकं ततोधिकस्य- इति-'त' पुस्तके । ततोऽधिकमिति __ अधिकः पाठः दृश्यते।
ततोऽधिकस्यासमं प्रयच्छति-द • आसुप्रदातस्तु किमन्यद्देयं-त . 10 कुसन्धेरपि प्रयुक्तमिति-म 1 वसु सार्नु सहसा जातम् अवेदसं विप्रश्नजातवेदमितीदृशशब्दालङ्कारज्ञानस्य निरूपणवत् वेदस्य-त