SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ .. अलङ्कारराघवे एवालहारशास्त्रारम्भप्रयोजनम् । 'तत्रास्यापि निरूपणात् छत्रिन्यायेनालङ्कार. शास्त्र प्रथायाः अप्युपपत्तेरिति चेन्न। शास्त्र जन्यरसानन्दज्ञानस्य परसमवेतसुखादिज्ञानवदपुरुषार्थत्वात् । नन्वभिनयादिजन्यरसानुभवस्य स्वात्मनि पुरुषार्थत्वमनुभ्यत इति चेत्तस्य भरतशास्त्रप्रतिपाद्याभिनयविशेषसाध्यतया शास्त्रान्तरफलत्वेनान्यथासिद्धत्वात् , 'मलङ्कारशास्त्रासाध्यत्वात् , रसकाव्यश्रवणजन्यरसानन्दानुभवस्यापि यशोऽर्थादिसत्काव्यमात्रफलत्वात्। ननु रसप्रधानशब्दार्थरूपनाटकादिरूपकविशेषस्वरूपनिरूपणपरालङ्कारशास्त्रस्यतद्धटकाभिनयसाध्यरसानुभवोऽपि फलमिति चेदुच्यते। किमयं रसानुभवः स्वात्माभिन्नः। किं वा तद्भिन्नः। नाद्यः । तस्य वेदान्तशास्त्रफलत्वेनान्यथासिद्धवात् । ननु सब्रह्मानुमवत्वेनैव वेदान्तशास्त्रफलम् । 'न रसानुभवत्वेनेति चेन्न । रमब्रह्मणोमैदाभावेनावच्छेदकामावस्याप्यभावात् । नेतरः। अलहारशास्त्रारम्भविधुरपामरजनस्याप्यभिनयादिना रसाविर्भावदर्शनात् । तस्य तदफलत्वात्। तस्मान्निष्प्रयोजनत्वेनालङ्कारशास्त्रमनारम्भणीयमिति प्राप्तेऽभिधीयते। अलङ्कारशास्त्रमारम्भणीयम्। प्रयोजनसम्भवात्। तथा हि'मलङ्कारशास्त्रेण गुणदोषालङ्कारस्वरूपे निरूप्यमाणे वेदेऽपि सालङ्कारनिर्दोषार्थ 1 तत्र तस्यापित 'प्रथाय मप्युपपत्तेः-त अलङ्कारशास्त्रसाण्यत्वान-त • अभिनयसाध्यरसानुभवो विफलमिति-त ' तद्भिनपाध्यः-द . 'न' इति नास्ति' अलङ्कारशास्त्रगुणदोषालङ्कारशास्त्रे स्वरूपनि-म 8 सालङ्कर पगुणनिर्दोषार्थज्ञान-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy