SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अलङ्कारशास्त्रारम्भप्रयोजनम् 11 'आपादयन्ती परवादभङ्ग मभङ्गुरी मङ्गलवादभङ्गीम् । हर्षानुषङ्गेण निशम्य रामो माङ्गल्यवान्मङ्गलमातनोतु ॥ ननु अलकारशास्त्रमनारम्भणीयम्। प्रयोजनाभावात् । भथ मतम् । गुणदोषादिज्ञानेन तस्य प्रयोजनवत्वमिति । तन्न युक्तम् । · गुणदोषाविज्ञानस्य सुखप्राप्तिदुःखपरिहारतत्साधनान्यतस्त्वाभावात् । नन्वलङ्कार शास्त्रे गुणदोषादिज्ञानं, तस्मिन् सति 'सगुणनिर्दोषकाव्यारम्मसिद्धिः। तथा सति काव्यप्रयोजनशिवेतरक्षत्यादिनैव तस्यापि प्रयोजनवत्त्वमिति चेत् । इन्त अन्योन्याश्रयः। सिद्धऽलकारशास्त्रारम्भे गुणदोषादिज्ञानेन ताशकाव्यारम्भसिद्धिः। सिद्ध व काव्यारम्भे तत्प्रयोजनेनैव प्रयोजनवत्वेनालङ्कार. शास्त्रारम्भसिद्धिरिति। ननु तथापि "रसनिरूपणपरनिरतिशयानन्दानुभव आपादयन्तीमितिपरपक्षस्य वादं नाशयन्ती, भडगुररहिता मङ्गलवादशैली श्रीरामः हर्षातिरेकेण श्रुत्वा मजलं विदधातु ॥ Duodiachin 2 'त' पुस्तके नास्ति ' शास्त्रेण गुणदोषादिज्ञान-त • गुणनिर्दोष-त 5 विनैव प्रयोजनवत्वेन-त • रसरूपनिरतिशयानन्दसम्भव एव-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy