________________
अलङ्कारशास्त्रारम्भप्रयोजनम्
11
'आपादयन्ती परवादभङ्ग
मभङ्गुरी मङ्गलवादभङ्गीम् । हर्षानुषङ्गेण निशम्य रामो
माङ्गल्यवान्मङ्गलमातनोतु ॥
ननु अलकारशास्त्रमनारम्भणीयम्। प्रयोजनाभावात् । भथ मतम् । गुणदोषादिज्ञानेन तस्य प्रयोजनवत्वमिति । तन्न युक्तम् । · गुणदोषाविज्ञानस्य सुखप्राप्तिदुःखपरिहारतत्साधनान्यतस्त्वाभावात् । नन्वलङ्कार
शास्त्रे गुणदोषादिज्ञानं, तस्मिन् सति 'सगुणनिर्दोषकाव्यारम्मसिद्धिः। तथा सति काव्यप्रयोजनशिवेतरक्षत्यादिनैव तस्यापि प्रयोजनवत्त्वमिति चेत् । इन्त अन्योन्याश्रयः। सिद्धऽलकारशास्त्रारम्भे गुणदोषादिज्ञानेन ताशकाव्यारम्भसिद्धिः। सिद्ध व काव्यारम्भे तत्प्रयोजनेनैव प्रयोजनवत्वेनालङ्कार. शास्त्रारम्भसिद्धिरिति। ननु तथापि "रसनिरूपणपरनिरतिशयानन्दानुभव
आपादयन्तीमितिपरपक्षस्य वादं नाशयन्ती, भडगुररहिता मङ्गलवादशैली श्रीरामः हर्षातिरेकेण श्रुत्वा मजलं विदधातु ॥
Duodiachin
2 'त' पुस्तके नास्ति ' शास्त्रेण गुणदोषादिज्ञान-त • गुणनिर्दोष-त 5 विनैव प्रयोजनवत्वेन-त • रसरूपनिरतिशयानन्दसम्भव एव-त