________________
अलकारराघवे
नापि जातिरेव विशेषः। वंसे तदम'वात्। अत एव निर्विघ्नं समाप्यतामिति कामनया मङ्गला नुष्ठानात् 'सविशेषणे हीति' न्यायेन विन्नध्वंस एवं फलमित्यपि निरस्तम्। ननु मङ्गलाचरणजन्यविधि सिद्धिरेव फलमिति चेन्न। समाप्तिकामनया तदनु. ष्ठानाभावप्रसङ्गात् । अस्तु तर्हि समाप्तिरेव फलमिति चेन्मैवम् । उभ. यथा व्यभिचारात् । ननु समाप्तिप्रतिबन्धकदुरित प्रतिबन्धकत्वेन उत्तेजकतया मङ्गलाचरणं युक्तमिति चेन्न । प्रतिबन्धकदुरितजन्यप्रतिबन्धनिवृ. त्यर्थमेव तत्प्रयोगावरणप्रसङ्गात् । समाप्तिकामनया तदभावप्रसङ्गात् । लोकेऽपि मण्यादिजन्यप्रतिबन्धनिवृत्त्यर्थमेव उत्तेजकमण्यादेः प्रयुक्तत्वेन वयादिकार्यार्थमप्रयोगात्। निवृत्ते तत्प्रतिवन्धे 'क्लप्तसामग्र्या वयादिकार्योत्पत्तेः। किञ्च मङ्गलाचरणस्य उत्तेजकतवे ग्रन्थारम्भे नैयत्येन अमाचरणापत्तेः। पतिबन्धकदशायामेव उतेजकप्रयोगात्। नन्वत्र प्रतिबन्धकसम्भावनानयत्येन तदाचरणमस्त्विति चेतन। लोके प्रतिबन्धकनिश्चयेनैव उत्तेजकप्रयोगदर्शनात तत्सम्भावनया तदाचरणानुपपत्तेः। किञ्च मङ्गलस्य उत्तेजकत्वकल्पनं तथा उत्तेजकाभावविशिष्टप्रतिबन्धाभावस्य कारणत्वकल्पन श्चेति गौरवप्रसङ्गः। तस्मान्मङ्गलाचरणमिदं न युक्तमिति चेन् अत्रोच्यते । 'प्रारिप्सितपरिसमाप्तिरेव मङ्गलाचरणस्य फलम् । यदुक्तमुभयतो व्यभिचारान्न 'साफल्यमिति तत्र न तावदन्वयव्यभिचारः । 1 सिद्धिरेतस्य फलमिति-त
प्रतिबन्धकत्वोत्तेजकतया-त ३ लत्प्रयोगापत्त्या समाप्ति कामनया-त +क्लप्तसामथ्या एव-त । प्रतिवन्धकमेवोत्तेजकप्रयोगात्-त • प्रारिप्सितपरिसमाप्तेरेव-त ' साधनफलमिति-त