________________
मङ्गलाचरविचारः
श्रेयोविशेषाप्तिषु लोलुभश्चेत्
उत्को भवालतिराघवेऽस्मिन् ॥
(मङ्गलाचरणसार्थक्यविचारः) ननु वत्कृतं मङ्गलाचरणं 'सफलमसफर्क वा ! 'नाद्यः । तदनाचरणप्रसङ्गात् । आये न तावत् विघ्नध्वंसः फलम् । 'इदं समाप्यताम्' इति समाप्तिकामनयैव मङ्गलानुष्ठानात् । ननु 'प्रारब्धनिर्वाहे विघ्नो मा भूदिति कामनया मङ्गलानुष्ठानात् विघ्नध्वंसः फलमिति चेतुच्यते।
कोऽयं विघ्नशब्दार्थः ! समाप्तिन्यूनता वा ! प्रतिबन्धकदुरितं वा ! नाद्यः ।. अन्यूनसमाप्तेरेव फलत्वापत्तेः। नेतरः। तस्य तत्र व्यभिचारादकारणत्वात्। ननु मङ्गलस्य विघ्नध्वंसविशेषकारणत्वमिति चेत न । विशेषानिर्वचनात् । न तावन्मङ्गलजन्यत्वं विशेषः । आत्माश्रयात् । नास्ति समाप्तिजनकत्वम्। अलाघवात् अस्याविफलत्वौचित्यात् । न च गङ्गास्नानाद्यजन्यत्वं स इति शङ्ग्यम् । 'तदिति राजन्यस्वस्य जन्यत्वग्रहाधीनत्वेन प्राग्दोषानतिवृत्तेः ।
1 सफलमफलं वा-त - नान्त्यः -त 3 आयेऽपि न-त 'प्रारब्धनिर्वाहो विघ्नो-त : मदनुष्ठानात्-त ' तस्य तस्य तत्र-त १ ततो राजन्यत्वस्य-त 8 तजन्यत्वग्रहाधीनत्वेन-त