________________
मङ्गलाचरणविचार:
'रामाज्ञया स्वप्ननिरूढया मे विनिर्मितेऽलङ्कृतिराघवेऽस्मिन् ।
न युक्तिदौर्बल्यमुदाहृतीनां
न मान्द्यमित्यादरयन्तु सन्तः
- ज्ञानप्रदातुः गुरोः पादकमलद्वयं दृढभक्त्या नमस्कृत्य, अलङ्कारप्रायम् अलङ्कारराघवमिति ग्रन्थमहं करोमीति भावः । ग्रन्थस्य नाम निर्दिष्टमस्ति ।
गुरुपादाम्बुजद्वन्द्वमिति पद्यानन्तरं—
" मनोवाञ्छितदातारं देवताचक्रवर्तिनम् ।
श्रीरामं सपरीवारमुदाहर्तुमियं कृतिः ॥" इति पद्यं, 'त' प्रतौ दृश्यते । एतदन्यत्र न दृश्यते ।
5
॥७॥
कवीन्द्राणाम्
अत्र मस्य
'मनोऽभीष्टप्रदातारं देवता सार्वभौमं, परिवारयुतं श्रीरामचन्द्रम् उदाहरणद्वारा वर्णयितुमेव इयं कृतिः निबद्धेति कविः अस्य ग्रन्थस्य नामनिर्देशे औचित्यं प्रकटयति ।
-
'रामाज्ञयेति — स्वकीयग्रन्थस्य 'अलङ्कारराघवम्' इति नामकरणप्रसक्तिमत्र सूचयति । 'मामुद्दिश्य कृतिं रचयेति' – स्वप्ने कृतरामाज्ञानु - सारात् इयं कृतिः रचिता । अत एव अत्र उदाहरणेषु युक्तिदौर्बल्यं, मान्द्यं च न कापि दृश्यते । तस्मान् सहृद्दयाः सज्जनाः अत्र ग्रन्थे आदरं कुर्वन्तु इति सहृदयान् प्रार्थयति ग्रन्थकृत् ।