________________
अलङ्कारराघवे
'स्वस्थानानतिलङ्घनेन विहितं व्यालोललम्बोदरं ___पूर्णान्तःपुरन पुरध्वनिकरव्यापारलीलाद्भुतम् । दम्पत्योः करताळकेळिमधुरं हासास्पदं पूर्वयोः
वेतण्डाननताण्डवं वितनुतां चण्डान्तरायव्ययम् ॥२॥
तो पर्यणैषीत् । वायुः कदाचित् अस्याः रूपलावण्यात् आकृष्टः तया सह रेमे। सा अन्तर्वनी भूत्वा पुत्रमेकमसूत। जातमात्र एव स शिशुः उदयमानं रक्तवर्ण सूर्यबिम्बं दृष्ट्वा फलभ्रान्त्या गगनमुत्प्लुत्य अपीडयत् । इन्द्रः स्वेन वज्रायुधेन तमताडयत् । तदा तस्य हनूः वक्राभूत्। मा एवं तस्य हनूमान् इति नाम प्रथितम् । मत्पुत्रः एवंभूतः इति वायुः कुपितस्सन् स्वकीय सञ्चारमेव स्तम्भयामास। तदा इन्द्रमुखा देवाः तं सान्त्वयित्वा, हनूमतः स्वेच्छामरणं, वायुसमानं वेग बलं च अनुगृह्य ददौ' इति कथात्र अनुसन्धेया ॥ १ ॥ (वा. रा. कि. का-६६)
'इदमपि आशीर्वादपूर्वकमाळमेव, वितनुतामिति लोटः सत्वात् । अत्र गणपतेः ताण्डवम् अस्मदीयं महान्तं विघ्नं दूरीकरोतु इति ग्रन्थकृत प्रार्थितवान् । स्वस्थानमनतिक्रम्य लङ्घनं तेव कृतम्। तस्य ताण्डवनृत्यसमये, नूपुरध्वनिः अन्नःपुरे सर्वत्र व्याप्तः। प्राञ्चौ जायापती पार्वतीपरमेश्वरौ तदा स्वकीयकरताडनेन हसित्वा तं प्रशंसितवन्तौ । एतादृशं गजाननताण्डवमस्मदीयं विघ्नं परिहरतु इत्यभिप्रायः। वेतण्डाननताण्डवमेव विनं दूरीकरोति चेत्, किं पुनर्वक्तव्यं गणपतिपराक्रमं प्रति इति भावः ॥२॥