________________
॥श्रीः॥ 'यज्ञेश्वरदीक्षितविरचितम्
अलङ्कारराघवम्
.
'सञ्जातं स्फुटमञ्जनापरिणमद्गर्भान्तरालान
किश्चिद्वस्तु वरेण्यमस्तु सततं नः श्रेयसे भूयसे । मार्ताण्डग्रसने प्लुतिं कृतवतो यस्य प्रचण्डात्मनः
तेजोवैभवसम्भवेन भुवने सर्व विधूतं तमः ॥१॥
'मदरास् अडयारपुस्तकागारप्रतो अस्य प्रन्धर्कतुः 'यज्ञनारायणदीक्षितः' इत्यपि नामान्तरं लिखित दृश्यते।।
* i) हनुमतः मङ्गळपद्यमिदम् । 'आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखात्' इत्यनुसारात् अस्त्विति लोट्लकारसत्त्वात् 'आशीर्वादपूर्वक. मालमिदम् ।
ii) अत्र हनुमतः पराक्रमातिशयः व्यङ्ग्यरूपेण वर्णितः। 'अञ्जनापरिणमद्गर्भान्तरालात् सञ्जातं किञ्चिद्वस्तु' इत्यनेन हनुमानत्र विवक्षितः । 'मार्ताण्डप्रसने प्लुतिं कृतवतः तेजोवैभवसम्भवेन लोके सर्व तमः विधूतम्' इत्यनेन तस्य पराक्रमातिशयः व्यङ्ग्यात्मना सूचितः।
iii) पुञ्जिकस्थली नाम्नी अप्सराः शापात् वानरजन्म लब्ध्वा, कुचराख्यकपिनाथम्य पुत्री भूत्वा अञ्जनेति नाम लेभे । केसरी नामकवानरः
वः-त, अ