SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ xxxvii - 'अलकारराघवम् ' इति नामकोऽयं ग्रन्धः इदं प्रथमत्या सहृदयलोकं प्रविशतीति मोदावहो विषयः । अयं च ग्रन्थः भागद्वयेन विभक्तस्सन् सम्पादनकर्मणि स्वीकृतोऽभूत् । प्रथममागे नायकगुणादारभ्य गुणप्रकरणपर्यन्तमलङ्कारभागं विना विषयाः निरूपितास्सन्ति । द्वितीयभागे अलकारभागः सङ्कलितः । अत्र उदाहरणरूपेण रचितं अद्भुतराम इति नाटकं प्रत्येकं पुस्तकरूपेण सम्पादयितुं सकल्पः कृतः । द्वौ भागावपि एकस्मिन्नेव काले मुद्रणालयं प्रति प्रेषितावास्ताम् । अलहारराघवम्-द्वितीयो भागः मुद्रणालये शीधं मुद्रितस्सन् प्रथमभागप्रकाशनात् प्रागेव प्रकटितोऽभवत् । दीर्भाग्यात् प्रथमभागः भन्येन मुद्रणालयेन स्वीकृतः आसीन् । पर तत्र कतिपयैः मुद्रणक्लेशैः ग्रन्थोऽयं प्रतिनिवर्तितः । ततः भन्यं मुद्रणालयं प्रति मुद्रणार्थ कृतिरियं प्रेषिता । तत्र मुद्रिता सती इदाणी प्रकाशनमलभत । महता प्रयत्नेन ग्रन्थस्य प्रथमभागोऽयं सहृदयहस्तं प्राविदिति तु प्रशंसाहों विषयः । कृतज्ञतासमर्पणम् अस्य प्रन्थस्य संशोधने सम्पादने च महान् श्रमः मयानुभूतः । परं 'क्लेशः फलेन हि पुनर्नवता विषत्ते' (कुमारसम्भवे - ५-८६) इति कविवाण्यनुसारात् स च श्रमः मधुना मानन्दरूपेण परिणतः । एतस्य संपादनवेलायां बहवः विद्वांसः मूरि साहाय्यं कृतवन्तः । तान् प्रति कृतज्ञतासमर्पणं मदीय कर्तव्यम् । अस्य प्राच्यषियासंशोधनालयस्य प्राक्तननिर्देशकाः कीर्तिशेषा, विद्वांसः डा. जि. मरुळसिद्धम्यमहोदयाः अलारराघवस्य प्रन्थलिपिस्था
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy