________________
xxxvi
ग्रन्थे विषयनिरूपणाक्रमः
सामान्यतः अलङ्कारशास्त्रस्य लक्षणप्रत्थेषु सर्वत्र काव्यलक्षणं काव्यविभागः नाटकभेदः तत्स्वरूपं नायिकाविभागः तत्सहकारिणः देशभाषा भूषणादयः अभिधावृत्तित्रयं ध्वनिरसदोषगुणालङ्कारादयः नाट्यशाः इति अनेके विषयाः निरूप्यते । इयं तु प्राचीनसरणिः नवीनसरणिव । सैवानेनाप्यनुसृता ।
अलङ्कारराघवस्य प्रथमभागस्य विषयाः निरूपणक्रमश्च
सम्पादनक्रमानुरोधात् मङ्गलाचरणविचारः अलङ्कारशास्त्रारम्भप्रयोजनम् उपोद्घातप्रकरणम् नायकप्रकरणम् काव्यप्रकरणम् अभिधादिवृत्तित्रयनिरूपणम् कैशिक्या दिवृत्तिस्वरूपनिरूपणम् शय्यापाकयोः विचारः ध्वनिगुणीभूतव्यच महाकाव्यप्रबन्धाख्यायिका क्षुद्रप्रबन्धनिरूपणम् नाट्यप्रकरणं रसप्रकरणं दोषनिरूपणं गुणप्रकरणम इति विषयविभागद्वारा विषयाः निरूपिताः सन्ति । विषय निरूपणावसरे न्यायशास्त्र -मीमांसा - वेदान्तादिविचारानपि सन्दर्भेषु विचारयति । प्राचीनालङ्कारिकाणामभिप्रायान् अनुवदति । उदाहरणानि स्वतन्त्रतया रचितानि सन्ति । रामपरत्वेन तानि वदति कविः । अस्य शैली सुलभा । परं लक्षणनिरूपणसमये तर्कशास्त्रसरणिम् अनुसरति । न्यायमीमांसा वेदान्तादिशास्त्रेषु अयं निष्णातः इति ज्ञायते । रामाञ्जनेययोः परमभक्तः असाविति प्रथोदाहरणदर्शनेनावगम्यते । विशेषतः कविता निर्माणे अस्य प्रतिभास्तीति विज्ञायते । सर्वान् विचारान् स्वप्रतिमया विचार्य विशिष्टरूपेण वदति । काव्यादीनां सुदीर्घ निरूपणमत्र विस्तृततया कृतमस्ति । अयं तु शास्त्रविचक्षणः कविपुङ्गवः बिमर्शनदक्षश्च इति कथने न काप्युत्प्रेक्षास्ति ।
1