________________
Xxxviii
मूलहस्तप्रतिमेव मदरास अडयार् पुस्तकभाण्डागारात् संशोधनालयं प्रत्यानाध्य मां प्रति प्रादुः । तथा सम्पादनादिकर्मणि उपयुक्तसूचनाः दत्वा महोपकारम् अकुर्वन् । तावूरुसरस्वती महल पुस्तकभाण्डागारात् इस्तप्रतिप्रतिकृर्ति (Transcription copy) आनाययितुं तथा मूलहस्तप्रत्यो: मैक्रोफिल्मप्रतीः (Microfilm copies) च आनयनार्थम् एवं सम्पादितकृतिं मुद्रणालयप्रेषणे च संशोधनालयस्य प्राक्तननिर्देशका विद्वांसः डा. हेच. पि. मल्लदेवरुमहाभागाः भूरि साहाय्यं कृतवन्तः । अरमदीय संशोधनालयध्य इदानीन्तन निर्देशिकाः विदुष्यः डा. हेच. पि. देवकीमहाभागाः सम्पादनकर्मणि प्रकाशने च बहु साहाय्यं कृतवत्यः । ग्रन्थादौ सदुक्तीः सदाशयान् च कथयित्वा प्रोत्साहितवत्यः । सम्पादितग्रन्थं मुद्रणार्थं मुद्रणालय प्रेषणविषये हस्तप्रत्यानयनादिविषये च संशोधनालयस्य उपनिर्देशकाः 'पण्डितरत्नम्' 'वेदान्तभूषणम्' इति बिरुदभाजः विद्वांसः श्रीमन्तः आर्. जि. माळगिमहोदयाः महान्तमुपकारं चकुः । विश्वविद्यानिलयस्य मुद्रणविभागस्थाः वयस्याः सहृदयाः श्रीनरसिंहदेसा यिमहोदया : बहु साहाय्यं दत्तवन्तः । पाठपरिष्करणपाठस्वीकरणादिसम्पादनकर्मसु वयस्याः सहृदयाः विद्वांसः प्रांच्यसंशोधनपण्डितः इति बिरुदभाज: कला निपुणाः श्रीमन्त: हेच. शङ्करगणपति फाटक महोदयाः तथा संस्कृतभाषाविचक्षण इति बिरुदभाजः मित्रवर्याः सहृदयाः विद्वांसः श्रीमन्तः हेच्. वि. नागराजराबू महाभागाः महत्या प्रीत्या उपयुक्तास्सूचना: दत्वा अविस्मरणीयं साहाय्यं प्राददुः । प्राक्तन संशोधन - पण्डिताः विद्वांसः श्रीमन्तः वि. वि. नरसिंहाचार्य महाशयाः प्रन्थलिपि - परिचयविषये उपकृतवन्तः । मैमरुविश्वविद्यानिलयस्य स्नातकोत्तरसंस्कृतविभागस्य प्राक्तनमुख्याः प्राध्यापकाः विद्वांसः श्रीमन्त: एस्. रामचन्द्रराव् महाभागाः कृतिमिमां समग्रतया दृष्ट्वा हर्षिताः सन्तः संशोधनकार्ये उपयुक्ताः सूचनाश्व प्रायच्छन् ।