________________
गुणप्रकरणम्
287
आरक्षकस्मरणदक्षिणरक्षणेषु
पूर्णक्षमस्त्रिदशशिक्षकपक्षशिष्ट । . . रामोक्षरोक्षरवतिस्फुटपक्षपाती
___ मां रक्षतादिह दयेक्षण दक्षशीलः ॥३०९ ॥ १३) 'अन्यस्य अन्यधर्मारोपणं 'समाधिः । यथागुणैस्त्वदीयै रघुनाथकोच्च
स्साम्याभिमानप्रपलापराधात् । मुक्ताफलानीह विनिर्मलानि
नानाविध वेधमभिप्रयान्ति ॥३१० ॥ अत्र चेतनधर्मस्य अभिमानस्य मुक्ताफलेष्वारोपात् समाधिः। . १४) उक्तस्यार्थस्य समर्थनप्रपञ्चो 'विस्तरः । यथा
जानामि लोकेषु जनं न किश्चित्
__ रघूत्तम त्वादृशसत्यसन्धम् । यदैहिकामुष्मिकपुंफलेषु
भवन्ति सत्या भवदीयवाचः ॥३११ ॥
1 अन्यधर्मस्यान्यत्रारोपणम्-यथा' समाधिरन्यधर्माणां यदन्यत्राधिरोहणम् ॥ (प्र. रु. गु. प्र.) " समर्थनप्रपञ्चोक्तिरुक्तस्यार्थस्य विस्तरः ॥ (प्र. रु. गु. प्र.)