SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 276 अलकारराघवे 'रसभावादीनां खशब्दवाच्यता दुष्टैव ॥ इति चरुकुरिकोण्डुमट्टोपाध्यायतनयेन यज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिते अलहारराघवे दोषप्रकरण सम्पूर्णम् । ॥ श्री रामचन्द्रपरब्रह्मणे नमः ।। दोषप्रकरणस्यास्य पठनेन विपश्चिता । सर्दै दोषाः प्रशाम्यन्ति रामानुग्रहवैभवात् ॥ रसभावादीनां स्वशब्दवाच्चता दुष्टैव इति प्रतापरुद्रीयेऽपि दोषप्रकरणस्य अन्ते उक्तम् । अस्य वाक्यस्य व्याख्यानं-रत्नापण. व्याख्याने-एवं निरूपितमस्ति-रसेति। भावाः सञ्चारिभावाः । आदिग्रहणात् स्थायिमावा गृह्यन्ते। तेषां स्वशब्दवाच्यता रसशृङ्गारादिसामान्यशब्दाभिधेयता दुष्टैवेति। रसप्रतीतेः विभावादिप्रयोगान्वयव्यतिरेकानुविधानात् रसादिशब्दप्रयोगेऽपि तदप्रतीतेश्च नित्यव्यङ्ग्यस्य रसादेवाच्यत्वं दुष्टमेवेति भावः । तदुक्तं काव्यप्रकाशे रसदोषप्रकरणे 'व्यमिचारिरसस्थायिभावानां शब्दवाच्यता इति।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy