________________
गुणप्रकरणम्
१५) अश्लीलार्थकथनमश्लीलम् ॥ यथा
सञ्चयं पातकानां स्वम् अनेकजननार्जितम् । राम संहर दावाग्निरिव शुष्केन्धनं वने ॥ २९४ ॥ अत्र सञ्चयशब्दार्थोऽलीलः ॥
१६) देशकालादिविरुद्धं विरुद्धम् ॥
यथा
अत्र नालङ्कारान्तरं शङ्कनीयम् । विच्छित्तेरसाबातू ।
-
18*
श्रेयस्कामा वितन्वन्ति पापानि बहुधा जनाः । जानन्ति तव सेवायां दुःखमेव महीतले ।। २९५ ॥ मत्र वस्तुविरोधः ॥ एवं विरोधान्तरमुदाहार्यम् ||
१७) अतुल्यानां सहनिबन्धने सहचरभ्रष्टम् ॥ यथा
'परस्त्रीस्मरणेनैव नमन्ति समयं बिटाः ।
रामस्य स्मरणेनैव नयामो दिवसान् वयम् ॥ २९६ ॥ अत्र परस्त्रीस्मरण रामस्मरणयोरतुल्ययोः सह निबन्धनात् सहचरभ्रष्टता ॥
परुषनामक दोषलक्षणं उदाहरणं च नोक्तम् ।
एवं दोषान्तरमप्युदाहा ॥
275
परस्त्रीस्मरणेनेह - त