________________
दोषनिरूपणम्
269
हृदब्जकर्णिकाग्रस्थे त्वत्पादयुगले विभो । तनखज्योत्स्नया धूतं भूयाद्रामान्तरं तमः ॥२७७ ॥
'मत्र मम हृदब्जकर्णिकाग्रस्थे ममान्तरं तमो निधूतं भूयादिति वक्तव्ये तथा नोक्तमिति सम्बन्धवर्जितम् ॥
xxiii) 'यत्राधिकपदमुत्क्षिप्यते तदधिकपदम् ॥ यथा
राम ते नामदावाग्नेर्महापापवनद्विषः । मृदूपपातककूलानां राशिर्मम कि यानहम् ॥ २७८ ॥
अत्र मृद्विति पदमधिकम् । 'उपपातककूलानामिति' सम्यक् पाठः ॥ xxiv) यत्र प्रक्रान्तनियमो भज्यते तत्र भग्नक्रमता ॥ यथाअदन्तु कुत्राप्यनृतं वदन्तु
चरन्तु हिंस्राः कनकं हरन्ताम् । व्रजन्त्वगम्या दुरितं सृजन्तु
ध्यायन्तु रामं न भयं तु यान्तु ॥ २७९ ॥ अत्र हरन्तामिस्यामात्मनेपदप्रयोगात् भमप्रक्रमता । हरनिवति सम्यक् पाठः ।।
1 अत्र हृदब्जे कर्णिकाप्रस्थे-ज २ यत्राधिकपदमुपक्षिप्यते3 कियानयम्-म