________________
दोषनिरूपणम्
267
xvii) यत्र विसर्गों बहुधा ओत्वं लोपं वा प्राप्नोति 'तद्विसर्गलुप्तम् ।।
दुराचारोऽतिकृपणो बद्धो जालं पटोनिशम् । तव राम कवीशोऽहं नोपेक्ष्यास्मि वचोपकः ॥ २७२ ॥
xviii) यंत्र समासोऽनुचितोऽनुषद्धयते तदपदस्थसमासम् ॥ यथा'स्वमस्तकाग्राहितपनकुड्मला
प्रतीक्षणीयाञ्जलिबद्धसादरम् । भवन्तमेकं शरणं गतं मिया
समस्तपापादव राम मां विभो ॥ २७३॥ अत्र रामवर्णने न समासः। किन्तु निजस्वरूपकथन एवेत्यपदस्थसमासता ।
अनर्थहेत्वन्तरबाद्यविद्विषद्विभीतलोकाभयदानसादर इति सम्यक्
पाठः ॥
xix) यत्र वक्तव्यं न कथ्यते तद्वाच्यविवर्जितम् ॥ यथातापत्रयं दुश्शममन्यदेवैः
निवर्तयैतन्मम रामचन्द्र । नीहारशीतैर्निविडैः कटाक्षः
त्वां लक्ष्मण स्वदयितां नमामि ॥ २७४ ॥
1 ओत्वलोपौ विसर्गस्यासकृल्लुप्तबिसर्गकम् ॥ 2 दुश्शममयादेवै -1
(प्र.रु. दो. प्र)