________________
264
अलङ्कारराघने
(ix) 'यत्र भिन्नलिङ्गयोभित्रवचनयोरुपमानोपमेयभावः ते 'भिन्नलिङ्गमिन्नवचने ॥ यथा
नैशानि तिमिराणीव पापं मे देव दृश्यते । तन्निवारय राम त्वं धामेव खरदीधितेः ॥२६५ ॥
अत्र पापं तिमिराणीवेति भिन्नवचनयोरुपमानोपमेयभावः। त्वं खरदीधितेचोमेवेति भिन्नलिङ्गयोरुपमानोपमेयता। तत्र त्वमित्यस्य प्रकरणात्
पुल्लिातेति बोध्यम् ॥ .. नैशं ध्वान्तमिव स्वान्ते
"प्रकाश उपभास्वत इति सम्यकपाठः ॥ (x) यत्र विशेषणः न्यूनमुपमानं तत्र न्यूनोपमा ॥ यथा
कटाक्षास्ते दया शीता 'मयि मयि संसारतापिते । निपतन्तु यथा राम गिरौ चन्द्रमसः कराः ॥ २६६ ॥ अत्र दृष्टान्ते विशेषणानुपादानान्न्यूनोपमात्वम् ।।
'सुधाः चन्द्रभानव इति सम्यक्पाठः ।। (xii) यत्रोपमानं विशेषणैरधिकं तत्र अधिकोपमम् ॥ यथा
1 यत्रोपमा भवेद्भिन्नवचना भिन्नलिङ्गका ।
तद्भिन्नवचनं भिन्नलिङ्ग चाहुर्मनीषिणः ॥ (प्र. रु. दो. प्र) * पुल्लिङ्गतेति भिन्नलिङ्गत्वं बोध्यम्-त 3 प्रकाशमिव भास्वत इति सम्यक्पाठ -त + सन्तापित भुबि-म