________________
अलकारराघवे
- अत्र नेत्रेण कारुण्यरसं दधानः हस्तेन 'अभयदानमुद्रां दधानः इत्यन्वयः। नेत्रहस्तशब्दयो।परीत्येन प्रक्षेपः
(vi) वाक्यान्तरपदसङ्कीर्ण वाक्यसङ्कीर्णम् । .
यथा
'पुण्यं यशो यस्य पुनाति काशी
पाषाणमेकं परितत्रिलोकीम्। पादाब्जतीर्थ हृदयं पुनातु
देवो मदीयस्य पदारविन्दम् ॥ २६० ॥ अत्र यम्य पादाब्जतीर्थ काशी पुनाति यस्य पुण्यं यशः त्रिलोकी पुनाति यस्य पदारविन्दमेकं पाषाणं पुनाति स देवो रामो मदीयं हृदयं पुनाविति बहुवाक्यस्थपदानां सङ्कीर्णता ॥ पुनाति काशीमपि यत्पदाम्बु
यशो मदीयं भुवनत्रयं च । शिलां च दुश्शीलतमा यदधिः
पुनातु रामस्स ममान्तरङ्गम् ॥ २६१ ।। इति सम्यक् पाठः॥ (vii) यत्र क्रियान्वयो न सम्पूर्णः तत् अपूर्णम् ।। यथा
1 अभयमुद्रा दधानः-म १ वाक्यान्तरपदैः कीर्ण वाक्यसङ्कीर्णमुच्यते ॥ (प. रु. दो. प्र.) • अपूर्ण तद्भवेद्यत्र न सम्पूर्णो क्रियान्वयः (प्र. रु. दो. प्र.)