________________
250
तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घ न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्याः मनः ।
तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्त्तिनीं सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥ २३५ ॥
अलङ्कारराघवे
' इत्यादी तत्र पिहितेत्यनन्तरं नैतत् यत इति न्यून पदानि न गुणः दोषः । तत्र तस्य न दोषत्वापत्तिः । तस्य अगुणादोषदशापन स्वात् । न चोक्त दशानापन्नतयोद्भाव्यत इति कथं तेन रूपेणापि दूषकत्वमिति वाच्यम् । दोषोद्भावनमहिम्नैव तस्याप्युद्भावनमिति ज्ञातत्वात् । अन्यथा दोषत्वोद्भावनमेव न स्यात् । तथा सन्दिग्वग्राम्यालीलादिकपदतदितरपदकथितपदपतत्प्रकर्षसमासपुनराचा पदस्थ समासादेरपि न प्रातिविक रूपेण दूषकता । तेषां तेन तेन रूपेण तत्र गुणत्वदर्शनात् । तदुदाहरणानि तु काव्यप्रकाशे प्रपञ्चितानि द्रष्टव्यानि । किन्तु गुणदशानापन्न सन्दिग्धत्वादिरूपेणैवेति सन्तोष्टव्यमायुष्मता । स च दोषो द्विविधः । शब्ददोषोऽर्थदोषश्चेति । शब्ददोषोऽपि द्विविधः । पददोषो वाक्यदोषश्चेति । तत्र पददोषास्सप्तदश ।
अप्रयुक्तापुष्टार्थासमर्थनिरर्थकनेयार्थच्युत संस्कारसन्दिग्धाप्रयोजकक्लिष्टगूढार्थग्राम्यान्यार्थाप्रतीतिका लीलाविमृष्टविधेयांशविरुद्धमतिकृत् परुष भेदात्
1 इत्यादिर्न तत्र पिहितेत्यनन्तरं म
दशानापन्नत्वं नोद्भाव्यत इति-त
तस्या-3
4 गुणदशापन्न सन्दिग्धत्वादि-त
2
3