________________
248
अलकारराघवे
तदवच्छेदकयो'दुर्निर्वचनात् । किश्च किमिदं काव्यदोषलक्षणं किं वा दोषमात्रलक्षणम्। नाद्यः। स्वकृतधर्मकीर्तनादावतिव्याप्तिप्रसङ्गात् । धर्मः क्षरतीति की तैनादिति वचनात् तस्यापि धर्मापकर्षहेतुत्वात् । नेतरः । इतरभेदसाधने भागेऽर्थान्तरापत्तेः। तस्माद्दोषलक्षणं दुर्वचमिति चेदत्रोच्यतेआत्मगणनिष्ठत्वे सति गुणाभावव्यतिरिक्तत्वे सति गुणत्वविरुद्धत्वेनप्रसिद्धधर्माधिकरण दोष इति दोषलक्षणनिष्कर्षः। अत्र गुणेष्वतिव्याप्तिनिगसाय गुणत्वविरुद्धत्वेनेत्युक्तम्। विरुद्धधमा अप्रयुक्तादयः विरुद्धत्व. पदेन सहानवम्थानविवक्षया घटत्वादावतिव्याप्तिानगसाय प्रसिद्धेत्युक्तम् । घटत्वादेर्वस्तुतो गुणत्वविरोधेऽपि तस्वेन प्रसिद्धरभावात् तेन तव्यावृत्तिः । गुणाभावेऽतिव्याप्तिनिरासाय द्वितीयं सत्यन्तं विशेषणम्। जगणरगणादिदोषेष्वतिव्याप्तिनिरासाय गणादिनिष्ठत्वे सतीत्युक्तम् । उपपातकादिदोषेऽति. व्याप्तिनिरासाय आत्मपदम् इति विशेषणोपयोगः। न च गणादिदोषाः काव्यदोषा एवेति न तव्यावृत्यर्थ विशेषणदानम् युक्तमिति वाच्यम् । एतेषां काव्यदोषत्वेन आलङ्कारिकैरपरिगणितत्वात् तत्परिगणितानामेव लक्षणनिर्वच. नौचित्यात् ।
यद्वा प्रथमसत्यन्तं व्यर्थम् । न च गणदोषेष्वतिव्याप्तिः। तेषामपि काव्यदोषत्वेन तत्पृथक्करणानौचित्यात् । आलङ्कारिकाणां तदपरिगणनं . तु वृत्तशास्त्रसिद्धत्वेन न तु काव्यदोषत्वेन। यथा वेदप्रामाण्यं
'दुर्निर्वच वात्-त * स्वकृतकर्मणि कीर्तनादौ-म 3 धर्मःक्षरति कीत्तनादिति-त * गुणादिनिष्ठत्वे सति