________________
दोषनिरूपणम
1247
काव्याभासता वा ! अन्यद्वा ? नायः। काव्यस्य निरवयवस्य अवयवप्रच्युतेरसंभवात् । न द्वितीयः। कर्तवर्ण्यदोषादावतिव्याप्तेः। शूद्रपतितादिकृतकाव्यं दुष्टं काव्यमिति व्यवहारदर्शनात । सद्वर्णनीयकादम्बर्यादावपि तथा व्यवहारदर्शनाच्च । न तृतीयः। गुणाभावादावतिव्याप्तेः। गुणरहितेऽपि काव्ये सत्कवीनां हासोदयात् । न चतुर्थः। तत्प्रयोजकदुरदृष्टादावतिव्याप्तेः। न पञ्चमः। च्युतसंस्कारादीनाम् उत्तमपुरुषचरिता नङ्कितत्वं प्रति अहेतुत्वादसम्भवप्रसङ्गात्। न षष्ठः। तेषामिदानीमपि असिद्धेः 'आश्रयापत्तेः। न सप्तमः। जातेनित्यत्वेन तद्धेतुत्वासम्भवेन असम्भवप्रसङ्गात्। नाष्टमः। गुणाभावादाततिव्याप्तेः। न नवमः । तस्यानिर्वचनात् । तस्मान्न तद्दोपलक्षणं युक्तम् । यदपि काव्यप्रकाशिकाकारलक्षणं मुख्यार्थहतिर्दोष इति । मुख्यार्थापकर्षो दोष इत्यर्थः। तदपि चिन्त्यम् । गुणाभावेऽतिव्याप्तेः। ननु गुणाभावउत्कषोभावरूपो नापकर्ष इति चेन्न। उत्कर्षाभावरूपम्यैव अपकर्षरूपत्वात् । गुणाभावेऽप्यपकृष्टोंऽर्थ इति व्यवहारात् । ननु तथापि गुणाभावोऽपकर्षहेतुरेव न तद्प इति नोक्तदोष इति चेत् तर्हि अप्रयुक्तादेरप्यपकर्षहेतुत्वेन च तद्रूपत्वाभावात असम्भवप्रभवप्रसङ्गः। ननु हेतुहेतुमतोरभेदविवक्षया तथोक्तियुक्तेति चेत् नर्हि तत एव गुणाभावेऽप्यतिव्याप्तिर्वज्रलेपायितैव । तथापकर्षोऽपि प्राक्तनन्यायेन निर्वक्तुमशक्य एव । अतो न तदपि लक्षणं युक्तम् । अत एव न साहित्यचिन्तामणिकारलक्षणमपि युक्तम्। भपकर्षहेतुत्वात् ।
1 आत्माश्रयोपपत्तेः-त " अर्थापकर्षोऽपि-त 3 अपकर्षहेतुतातदवच्छेदकयो:-न