________________
246
अलङ्कारराघवे
अथ दोपनिरूपणम् 'अथ काव्यनिरूपणानन्तरं गुणानां सम्यग्विवेकाय दोषा निरूप्यन्ते । ननु "दोषः काव्यापकर्षस्य हेतुः शब्दार्थगोचर" इति विद्यानाथः ।
मुख्यार्थहतिदोषो रसश्च मुख्यः तदाश्रयाद्वाच्यः ।
उभयोपयोगिनस्स्युः शब्दाद्यास्तेन तेष्वपि सः॥ इति साहित्यचिन्तामणिकारः।
धर्मापकर्षहेतुर्यस्स दोष इति कथ्यते इति काव्यप्रकाशिकाकारः।
तत्र न तावद्विद्यानाथलक्षणं युक्तम् । आत्माश्रयान्योन्याश्रयप्रसङ्गात् । 'अदोषौ सगुणौ सालङ्कारौ शब्दार्थों काव्यमिति। तेन काव्यलक्षणस्य उक्त वेन दोषज्ञाने दोषज्ञानमित्यात्माश्रयः। काव्यज्ञाने च दोषज्ञानं दोषज्ञाने च तदभावशब्दार्थरूपकाव्यज्ञानमित्यन्योन्याश्रयः। किञ्च काव्यापकर्षहे तावच्छेदकं किञ्चिदस्ति वा न वा। नायः। तदभावे तद्धेतुत्वस्यैव दुर्घहत्वेन इतरभेदसाधने अज्ञानासिद्धिप्रसङ्गात् । आयेऽपि 'दोषत्वं वा अन्यद्वा। नावः। आत्माश्रयप्रसङ्गात् । द्वितीये लाघवात् तदेव लक्षणमस्तु किमनेन कण्ठोषणेन ? किश्च कोऽयं काव्यापकों नाम यद्धतत्वं दोषत्वं स्यात्। तम्यावयवप्रच्युतिर्वा दुष्टं काव्यमिति व्यवहारविषयत्वं वा। सत्कविहासास्पदत्वं वा। अप्रचयगमनं वा । उत्तमचरितादितत्त्वं वा! शब्दार्थदूषितत्त्वं वा; जातिविशेषो वा !
1 दोषनिरूपणं-मदरास् पत्तनस्य अडयार् ग्रन्थालयप्रतौ अलङ्कारनिरुपणानन्तरं दृश्यते।
किन्तु-म 8 दोषार्थ वा-म