________________
24
अलङ्कारराघवे
शङ्कासूयाभयग्लानिव्याविचिन्तास्मृतिधृत्योत्सुक्यविस्मयावेगव्रीडोन्मादमदविषादजडतानिद्रावहित्थाचापलमृतयः शृङ्गाररसे व्यभिचारिणः ।
'श्रमचापलनिद्रालस्यग्लानिशङ्कास्यावहित्था हास्ये व्यभिचारिणः । दैन्यचिन्ताग्लानिनिवेदजडतास्मृतिव्याधयः करुणे व्यभिचारिणः॥ हर्षासूयागर्वोत्साहमदचापळोग्रता रौद्रे व्यभिचारिणः ।
श्रमश्चपलता निद्रा स्वप्नो ग्गनिस्तथैव च । शङ्कासयावहित्था च हास्ये भावा भवन्त्यमी ॥ सन्त्रासो मरणं दैन्यं म्लानिश्चैव भयानके । अपस्मारो विषादश्च भयं रोगो मूतिर्मदः । उत्साहश्चेति विज्ञया भावा बीभत्ससम्भवाः ।। आवेगो जडता मोहो हर्षण विस्मयः स्मृतिः। इति भावा निबद्धव्या रसज्ञैरद्भुते रसे।" दैन्यं चिन्ता तथा ग्लानिर्निवेदो जडता स्मृतिः । · व्याधिश्वं करुणे वाच्या भावा भावविशारदैः ॥ हर्षोऽसूया यथा गर्व उत्साहो मद एव च । चापल्यमुप्रता चैव रौद्रे भावाः प्रकीर्तिताः ।। अमर्षः प्रतिबोधश्च वितर्कोऽथ मतिधृतिः । क्रोधोऽसूयाथ समोह आवेगश्चोपहर्षणम् ।। गर्यो 'मदस्तथोग्रत्वं भावा वीरे भवन्त्यमी । रसः सर्वोऽपि सम्पूर्णस्तिरोषत्ते रसान्तरम् ।।
(शृङ्गारतिलकम्) 1 श्रमचापलनिद्रास्वप्नालानिशंकासूयावहिल्या हास्ये व्यभिचारिणः-त