________________
रसप्रकरणम्
243
च परस्परं विरुद्धाविति मन्तव्यौ ॥ तथा 'शृङ्गाराद्धास्यस्य रसस्य रौद्रात् करुणस्य वीरादभुतस्य बीमत्साद्भयानकस्याप्युत्पत्तिरप्यवगन्तव्या ।
रसादेरङ्गत्वे रसवदाधलङ्कारा भवन्ति । तदुक्तम्-साहित्यचिन्तामणौ
रसाङ्गभूतो रसवत् प्रेयो भावस्तथाविधः । तदाभासस्तथौर्जस्वीभावशान्तिस्समाहितम् ।। इति एतेषामुदाहरणान्यलङ्कारसर्वस्वे द्रष्टव्यानि ॥ विशेषाभावामात्र तदुदाहरणप्रपञ्चः ।। व्यभिचारिभावाना तत्सद्रसानुगुण्यं शृङ्गारतिलकादावुक्तम् प्रदर्श्यते ।
(ii) रसानां परस्परविरोधः यथा वीरशृङ्गारयोः शृङ्गारहास्ययोः
रौद्रशृङ्गारयोः वीराद्भुतयोः वीररौद्रयोः रौद्रकरुणयोः शृङ्गाराद्भुतयोवा
ध्वन्यालोक:-३ उद्योतः २४ का 1 मन्तव्यम्हास्यो भवति शृङ्गारात् करुणो रोद्रकर्मणः।। अद्भुतश्च तथा वीरान बीभत्साच्च भयानकः ॥
(शृङ्गारतिलके) शङ्कासूयाभयं ग्लानिधिश्चिन्ता स्मृति तिः । औत्सुक्यविस्मयावेगा वीडोन्मादौ मदस्तथा ।। विषादो जडतानिद्रावहित्था चापलं मृतिः । इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः ॥
16*