________________
241
रसप्रकरणम्
अत्र विषादासूयाहर्षवितकोणा शबलता ।
एतान्येवासलक्ष्य क्रमव्यङ्ग्यस्य उदाहरणानि द्रष्टव्यानि ।
अथ 'रससङ्करस्य उदाहरणं प्रदर्श्यतेशृङ्गारकरुणयोस्सङ्करो यथा
नित्यं मत्परिरम्भसंभ्रमजुषा वक्षस्थलेनामुना देवीं वानर सार्वभौमवसुधां गाढं सदालिङ्गसि । मद्वक्षोजविमर्दनिर्दयगतिः पाणिस्तवेतः परं
रम्भोरोजयुरो चलिष्यति दधौ तस्यां कृपा राघवः ॥ २३२॥ वीरभयानकयोस्सङ्करो यथा
चाणोन्मर्दित वीरवानरबलो रामाभिमुख्यागतः तद्वाणाशनिजातपातविदलच्छारीर ममन्तिरः । मुष्टयाघात विधूत राक्षसचमूसंमर्दभूमाकुलः सङ्ग्रामाद्विमुखः पलायत दशग्रीवोऽभिलङ्कापुरम् ॥ २३३ ।।
1 रसाः कार्यवशात सर्वे मिलन्येव परस्परम् ।
प्रथमं यो रसः ख्यातः स प्रधानो भविष्यति ॥ (भावप्रकाश:) 2 समालिङ्गसि-त । वानरभटो रामाभिमुख्या-त * वर्मान्तर:-त 5 विघात
पलायितदशग्रीवोऽभिलकापुरम्-त