________________
236
अलङ्कारराघवे
आरोपाद्धनुषो हरस्य दयिता रामस्य मैथिल्यभू देवं भार्गवकार्मुकस्य नमनालब्धा जयश्रीरपि । तेनेतः परमीग्रंया कृतमये नोपेक्षणीयेव सा
भूलोके बहुवल्लभा हि विदिताः प्रायेण भूपालकाः ॥ २२३ ॥ 'विरहो नाम संयुक्तयोस्त्रीपुंसयोः केनापि प्रकारेण सङ्गमकालातिक्षेपः । यथा"वियोगिहिंस्र ननु पूर्णमासि
किं पूर्णचन्द्र नयसीह मासि। निजाश्रितानामवनकदीक्ष
तूर्ण तमेवानय रामचन्द्रम् . ॥ २२४ ॥ यूनोर्देशान्तरवृत्तित्वं प्रवासः॥ यथा
आकारतस्स्मरति किं रघुरा......... ___ आकारतस्सरति ते विगतेति सीता। मन्मोचनाय भवतीह किमाञ्जनेय
दग्धुं पुरं भवति जानकि वैरिणोऽपि ॥ २२५ ॥
1 विरहो नाम लब्धसंयोगयोनायिकानायकयोः __ केनचित् कारणेन पुनः समागमकालातिक्षेपः । (प्र. रु. र. प्र.) 'वियोगे हिस्र ननु पौर्णमासि-त ३ मन्मोचनाय भवतीह किमाञ्जनेय दण्ड पुरं भवति जानकि
वैरिणोऽपि-त.