________________
रसप्रकरणम्
221
अधुना पश्यत सख्यः स्पृष्टाग्रकरेण रामचन्द्रस्य ।
सीता शशाङ्ककान्तप्रतिमेषखिन्नविग्रहा भाति ॥ १९२ ।। सुव्यक्तविकारो भावो हेला ॥ यथा
आरामे विहरामो वयमिति वचने नस्तवाङ्गेषु ।
पुलकास्फुरन्ति सान्द्रं भावस्ते माति भूसुते रामे ॥ १९३ ।। भूषणानि विना रम्यत्वं 'माधुर्यम् ॥ यथा
(iv) हेलाहेतुः स शृङ्गारो भावात्किञ्चित् प्रकर्षवान् । । . : सग्रीवारेचको हावो नासाक्षिभ्रविलासकृत् ॥
(भावप्रकाशने प्रथमोऽधिकारः १९३) 1 (i) सुव्यक्तविक्रियो भावो हेलेति प्रतिपाद्यते। (प्र. रु. र.प्र.) (ii) स एवं हेला सुव्यक्तशृङ्गाररसमूचिका । (द. रू. २प्र.३४श्लो) (iii) नानाविकारः सुव्यक्तः शृङ्गारकृतिमूचकैः । हाव एव भवेद्धेला ललिताभिनयास्मिका ॥
(र. सु.प्र.वि १९४) (iv) स एव हावो हेला स्याल्ललिताभिनयास्मिका । नानाप्रकाराभिव्यक्तशृङ्गाराकारसचिका ॥
(भावप्रकाशने-प्रथमोऽधिकार -८पृ. १३-१४ पं) 2 (1) अभूषणेऽपि रम्यत्वं माधुयमिति कथ्यते। (प्र. रु. र. प्र.) (ii) माधुर्य नाम चेष्टानां सर्वावस्थासु मार्दवम् ।।।
(र. सु. प्र. वि. १९५) (iii) अनुल्बणत्वं माधुर्य- (द. रू. २प्र. ३६ श्लो) (iv) सर्वावस्थासु चेष्टानां माधुर्य मृदुकारिता ।।
... भावप्रकाशने-प्रथमोऽधिकार -८पृ. १९ पं.)